________________
प्रथमपरिवर्तः।
प्रति भगवांस्तेन पृष्टोऽतोऽर्थनिर्णयवशाद्भगवत एव सकाशाछतिरिति कृत्वा मयेत्याह। यत्ततं यन्न्वहं सर्वमेवंश्रुतिकयोहिशेयमिति तद्न्यमधिकृत्येति न दोषः । एवमुपोडातं कृत्वेदानौं कदा कुतः कुच कैः सहैवं सूचरत्नं त्वया श्रुतमिति प्रश्नानात्मप्रामाण्यप्रतिपादनाय विसजयन् । देशकालपर्षद्देशकसामग्री हि देशनाः कारणमिति निदानमाह । एकस्मिन् समये श्रुतमेकस्मिन् काल इति पूर्वेण सम्बन्धः । एतेन सर्वकालमेवंविधचिन्तारत्नराजसमसूचोपलम्भाभावात्कदाचित्कत्त्वापदर्शनेन दलभत्वमस्याख्यातम् । यदैकस्मिन् काले मयेदं सूत्ररत्नं श्रुतमन्यदाऽन्यदिति वक्रोक्त्या स्वगतं बाहुश्रुत्यं सत्त्वार्थ प्रतिकारुणिकवैद्यराजन्यायेनाह सङ्गीतिकारः। अथवैकस्मिन् क्षणे सर्व श्रुतमित्यर्थः। स्वप्ने देवताद्याधिपत्यादल्यौयसापि कालेन वर्षशतायुपस्लम्भवद्भगवदाधिपत्यानिखिलसूत्रावभासिनः समनन्तरप्रत्ययमनोविज्ञानप्रभवश्रोतविज्ञानस्यैकस्मिन् क्षणे समुद्भवात् । अनेनात्मनः प्रमाणपुरुषतामाह। यत्किञ्चिन्मम श्रोतव्यं तत्सर्वमेकस्मिन् क्षणे मया श्रूयते ऽचिन्त्यविमोक्षमुखलाभित्वान्न च विस्मर्यत इति । अत एव सङ्गौतिकारस्य पश्चात्क्रमेण प्रत्तायां देशनायामन्यविनेयजनवर्गानुग्रहार्थमन्तरा सदा समाधानासम्भवेन कथञ्चिदव्याकृतस्य विषयान्तरावलम्बिनश्चेतसः सम्भवेऽपि नाविकले सूत्रे सङ्गीतिरुत्तरकालं विरुध्यते। तथागताधिपत्येन सम्पूर्णनिर्भासवतः प्रत्ययस्यादावेवोपजातत्वात् । पुनस्त्वसौ शृणोत्यवृप्ततया धर्मश्रवणामृतरसेन । परिशिष्टस्यापि विनेयराशेः किमेवन्न