________________
अभिसमयालङ्कारालोकः ।
धिष्ठितैः श्रावकादिभिः कथं भगवन्ननागते काले धर्मः सङ्गोतव्य इति पृष्टेन भगवता कृर्ताविपरीतसाक्षाच्छवणेनानधिगतार्थेनापि धर्मसङ्गीतौ क्रियमाणायान्न दोष इत्यभिप्रायेणोक्तं धर्मसङ्गीतिसूत्रे । “एवं मया श्रुतमिति कृत्वा भिक्षवो मम धर्मः सङ्गीतव्य तथा संबन्धानुपूर्वी प्रतिपाद्येत्यादि"। अतोऽपि वचनादेशकालादिवचनम् । तथा शक्रो देवानामिन्द्रो भगवन्तमेतदवोचदित्यादिवचनं च भगवदनुज्ञयैव सङ्गीतकर्तृभिः कृतमिति नाबुद्धवचनत्वप्रसङ्गस्तथा च बुद्धवचनेनाबुद्धवचनं प्रक्षेप्तव्यमित्ययमपि दोषो दूरत एव कृतानवकाशो ऽतश्च यथैव श्रुतं तथैव सङ्गीतमित्युपपन्नम्। एवं च कृत्वा यत्कश्चिदेवं मम देशितमिति वक्तव्ये, कस्मादेवं मया श्रुतमित्यभिहितमिति चोद्यं कृत्वा भगवद्देशनानुपपत्तेरित्यादियुक्त्यन्तरं वर्णितं तन्नितरां न राजत इति प्रतिपादितम् । नवाचार्यानन्देनोक्तं “प्रदेशान्तरे सन्ति भगवता सूत्राणि मत्समक्षं भाषितानि। सन्ति देवलोके भाषितानि। सन्ति परम्पराभ्यागतानि यानि मयैवंश्रुतिकयोङ्गहौतानी" ति । तानि च सर्वाण्यधिकृत्य "ब्रहि त्वं, महाप्रज्ञ, ब्रूहि त्वं, सुगतात्मज, धर्मचक्रप्रवर्तनसूत्र भगवता कुत्र भाषितमि"ति महाकाश्यपवचनावसाने बुद्धगुणानुस्मरणद्रवीकृतचित्तसन्तानः साश्रुदुर्दिनवदनो व्यापिना स्वरेणार्यानन्द "एवं मया श्रुतमि" त्याह। तत्कथं मयेत्यात्मवाचकेन साक्षाच्छ्रवणमिति!। नैष दोषो, यतस्तथागताधिष्ठानदेशनायां तद्देशनावत्तत्सामर्थ्यनान्यतः श्रवनेऽपि भगवत एव सकाशाच्छ्रवणम् । अन्यतो वा श्रुत्वा धर्मधराग्रत्वादर्थनिर्णयं