________________
प्रथमपरिवर्तः ।
गुणोपायं क्रियाफलस्य फलं प्रयोजनम् । तथाचोक्त
मभिसमयालङ्कारे ।
सर्वाकारज्ञतामार्गः शासिता योऽच देशितः । धौमन्तो वौक्षिषौरंस्तमनालीढं परैरिति ॥ २ ॥ स्मृतौ चाधाय स्वत्रार्थं धर्मचर्याम् दशात्मिकाम् । सुखेन प्रतिपत्सौरन्नित्यारंभप्रयोजनम् ॥ ३ ॥ इति तथागतगुह्यनिर्देशाधिकारेण सर्वथा भाद्रकल्पिक सर्वतथागतानां रूपकायसद्धर्मकायरक्षायां कृताधिकारत्वापाण्यभिषेकादौ प्रत्यर्पितशासनत्वाच्चान्येषां विशेषवचनाभावादडकवतौनिवासौ दशभूमीश्वरो महावज्रधरः सर्वलेोकानुग्रहाय प्रज्ञापारमितास्तच रत्नसङ्गीतिं प्रत्यधौष्टवन्तमार्यमैत्रेयादिमहाबोधिसत्त्वगणमेवमित्याद्याहेति पूर्वाचार्याः । अन्ये त्वचैव परौन्दनापरिवर्ते यथेयं जम्बुद्दीपे प्रज्ञापारमिता प्रचरिष्यतीत्यादिना (p. 529, 1) प्रत्यर्पितप्रज्ञापारमितात्वादार्यानन्दः सङ्गौतिकार इति मन्यन्ते । तचैवमिति (p. 3, 12 ) निश्चयार्थाभिधायिना स्वानुरूपज्ञानावधारितनिखिल स्वचार्थत्योपदर्शनपरेणैवमेतदित्यविपरीतत्वमाह । मयेत्यात्मवचनेन सकाशात्साक्षाच्छ्रवणं श्रुतमिति श्रोतविज्ञानेनानुभववचसा तथागताहतेऽन्यस्यैवंभूतसमस्तधर्माधिगमसामर्थ्य
।
भगवतः
वैकल्यादधिगमाभावः । एतच्च पदचयं भगवद्दचनादेव स्वत्रारम्भे निर्दिष्टम् । तथा हि भगवति परिनिर्वृत्ते नानार्थाधिमुक्तिप्रभावितत्वाद्दुरनुबोधबुद्धत्वावाहकसौगतवचनप्रसरस्यार्थाधिगमाभावे कथं कैश्चित्सङ्गीतिः क्रियत इति विनेयजनसंदेहापनयनकारिभिस्तथागताधिष्ठाना