________________
व्यभिसमयालङ्काराजोकः ।
सङ्ग्रहात्पारम्पर्येणापि क्वचिदस्तुन्यप्रवृत्तेर्भाव्यमानोऽप्यसावकारो न पुरुषार्थे युज्यत इति पुरुषार्थोपयुज्यमानार्थानभिधानादकथनदोषः ।
तस्माद्यथेोक्तार्थचितयसङ्ग्रहेण प्रत्येकपक्षभाविदोषानुपपत्त्या श्रावकप्रत्येकबुद्धबोधिसत्त्व तथागताधिगमसङ्गृहीतो ऽविपरौतः सर्वाकारज्ञताद्यष्टाभिसमयक्रमोऽभ्युदयनैःश्रेयसधर्मावाहकः समस्तो मार्गो विविधैः प्रातिहार्यैः सकलजनानुशासकेन भगवता महाकरुणामयेन प्रज्ञापारमितायां देशित इत्यभिधेयः । यथेोक्तमभिधेयमार्यशतसाहस्विकाप्रज्ञापारमितादिवत्रार्थं बोधिचित्ताववादादिप्रतिपत्तिरूपमष्टावस्थाभेदभिन्नं सर्वे संक्षिप्तरुचयः सत्त्वाः सुखेन संक्षेपतः प्रतिपद्यन्तामित्यष्टसाहस्रिकां भगवत भगवान् देशितवान् । अतः प्रतिपाद्य सन्तानगतः संक्षेपतः समस्तार्थसुखावबोधोऽसाधारणमिति क्रियाफलं प्रयोजनम् । यथोक्तमभिधेयं सर्वाकारज्ञतादिमार्गमनादिभवभाविभावाभिनिवेशविषदूषिताश्यै रनभ्यस्त समस्तभावनैरात्म्यभावनैईरिहरहिरण्यगर्भादिभिरनधिगतं प्रज्ञापारमिताश्रवणात् सुखेन श्रोत्रेण ज्ञानेनावधार्य, पटुतरानुभवाहितवासनाप्रभवस्मरणप्रत्यये समारोप्य, चिन्तामयेन निश्चित्य, भावनामयेन भावयन् । तस्माद्भूतमभूतं वा यद्यदेवाभिभाव्यते । भावनापरिनिष्पत्तौ तत्स्फुटाऽकल्पधौफलम् ॥ इति न्यायात् संवृतिपरमार्थसत्याश्रयेण दानादिशुभसञ्चयवान् स्वापरार्थ संपत्सम्पादनाहितमिति निर्वेधभागौयाद्यधिगमक्रमेण सर्वप्राकारं साक्षात्कुर्यादित्यनु
५