________________
प्रथमपरिवर्तः।
दानमईति यो यस्मिन्नभिहितेऽपि न गम्यते। यथाभिधेयाद्यन्यतराभिधाने नेतरावगतिर्भवति। न च सम्भवोऽस्ति प्रयोजनेऽभिहिते, संबन्धो नाभिहित इति । तथा हि संप्रदर्श्यमानः शास्त्रप्रयोजनयोः साध्यसाधनभावलक्षण उपदर्शनीयो, नान्यो गुरुपर्वक्रियादिलक्षणस्तस्यार्थिप्रवृत्तेरनङ्गत्वात् । स च साध्यसाधनभावः प्रयोजनाभिधानादेव दर्शितः ॥ __ तथा हौदमस्य प्रयोजनमिति दर्शयता दर्शितं भवतीदमस्य साधनमिति। न हि यो यन्न साधयति तत्तस्य प्रयोजनं भवत्यतिप्रसङ्गादिति सामर्थलभ्यत्वेन नासौ प्रयोजनाभिधानात्पृथगभिधानीयः। धर्मप्रविचयार्थं सर्ववस्तुसङ्घहोऽभिधेय इत्येकः। विपक्षप्रहाणाय समस्तप्रतिपक्षी निर्देश्य इत्यपरः। निरवशेषज्ञेयपरिज्ञानायाशेषाकारः कथनीय इत्यन्यः । तदेतत्वयमसत् । तथा हि प्रथमे पक्षे, समस्तवस्तुसङ्घहे, न हि तदस्तौह प्रज्ञापारमितायामपूर्व वस्तुजातं यन्न स्कन्धधात्वायतननिर्देशेनाभिधर्मपिटकादौ सङ्गहीतमिति पुनरुक्ततादोषः ॥
द्वितीये सर्वप्रतिपक्षसङ्ग्रह एव, कस्यचिद्दिपक्षवस्तुनोसङ्घहात्प्रतिपक्षतया श्रावकमार्गादयो भावयितव्या इत्यभिधानेऽपि न ज्ञायते कस्य प्रतिपक्षेणेति प्रतिनियतविपक्षप्रतिपक्षप्रतिपत्तेरभावादप्रतिपत्तिदोषः। तृतीयेऽप्यशेषाकारसङ्घहे विकल्पवयं, किं वस्तुनोऽव्यतिरिक्त आकार उत व्यतिरिक्त इति । यद्याद्यो विकल्पस्तदा वस्त्वेवाकारव्याजेन सङ्ग्रहीतमिति वस्तुसङ्घहभावी दोषः समापतति। अथ द्वितीयस्तदा विकल्पनिर्मितनिर्वस्तुकाकारमात्रस्य