________________
व्यभिसमयालङ्कारालोकः ।
व्यभिचाराभावात्। अनभिधेयत्वाशङ्काव्युदासार्थमुपदर्श. नौयेति चेत् । न, अभिधेयकथनादेव तदाशङ्काया व्युदस्तत्वात् । नाप्यभिधेय विशेषप्रतिपिपादयिषया तदुपादानम् । अभिधेयविशेषप्रतिपादनादेव तस्याः प्रति पादितत्वात् ।
तस्य च क्रियाफलस्य फलं प्रयोजनमुपदर्शनीयम् । तेन विना क्रियाफलमात्रेण सूत्रे प्रवृत्त्यसंभवात् । तथा ह्यभि मतप्रधानफलार्थौ प्रेक्षावांस्तदुपाये प्रवर्तेत, कारणमन्तरेण कार्यस्यायोगात् । अविकलारोग्यसाधनानुष्ठानेनारोग्यप्राप्तिवदुपायो ज्ञातोऽभ्यस्यमानः स्वोपेयफलदायक इत्युपायावगमाय स्वत्रे प्रवृत्तिस्तस्मात्प्रवृत्त्यङ्गप्राधान्येन प्रयोजनमेवावश्यं दर्शनीयम् । तच्चोपायभूतसम्बन्धादिशून्येन ग्रन्थेनाशक्यं दर्शयितुमिति स्वचस्य प्रयोजन प्रयोजनोपायता संदर्शनार्थं सम्बन्धादिकथनम् । तञ्च ।
प्रयोजनप्रयोजनम् ॥
सम्बन्धानुगुणोपायं पुरुषार्थाभिधायकम् । परीक्षाधिकृतं वाक्यमतोऽनधिकृतं परम् ॥
न
इति न्यायात् संबन्धानुगुणोपायमुपदर्शनीयम् । पुनरशक्यं तत्साधनानुष्ठानमन्यथा ज्वरहर तक्षकचूडारत्नालङ्कारार्थमिव न प्रवर्तेत कश्चित् ।
तथाभिमतार्थपरिसमाप्त्या
अनवस्थापि नैवम् । पुरुषस्याकाङ्क्षाविच्छेदादतो नापर मूर्ध्वं प्रयोजनं मृग्यमिति कोऽस्य संबन्धादिः । तचोच्यते । संबन्धस्तावन्न प्रयोजनात्पृथगुपदर्शनीयः । निष्फलत्वात् । स हि नाम पृथगुपा