________________
प्रथमपरिवर्तः। ज्ञानावाहकधर्मतत्त्वविषये जाताभिलाषा वयम् । व्याख्यां तेन परां मदर्थविषयां कर्तुं समभ्युद्यताः ॥५॥ एवमित्यादि (p. 3, 12)। सर्वचैव ह्यर्थसंशयेन सर्वेषां सम्बन्धाभिधेयप्रयोजनप्रयोजनावसायपूर्विका प्रवृत्तिरिति सम्बन्धादौनि प्रज्ञापारमितायां वाच्यानि । तथा हि यदि सम्बन्धाभिधेयमस्या न कथ्यत, तदोन्मत्तादिवाक्यवदसम्बन्धमनर्थकञ्चेत्याशङ्कया न कश्चित्प्रवर्तेतापि श्रोतुमिति सम्बन्धाभिधेयमस्यामवश्यं वचनीयम्। तथा सत्यपि सम्बन्धाभिधेये निष्पादितकिये कर्मण्यविशेषाभिधायि साधनमित्यादि-साधनन्यायमतिपततौति न्यायात्सचान्तरासङ्गहौतविशिष्टप्रवृत्त्यङ्गप्रयोजनरहितं प्रचापारमितासूत्ररत्नं श्रद्धानुसारिणोऽपि श्रोतुमपि नाद्रियन्त इत्यादावसाधारणं क्रियाफलं सूत्रे प्रवृत्तिकामानां प्रवृत्तये तहतमेव प्रयोजनं वाच्यं नान्यगतमन्यथा ह्यसङ्गताभिधानं स्यात् । सूत्रे हि परं प्रवर्तयितुं सूत्रादौ प्रयोजनमभिधीयते न व्यसनितया। कथञ्च पुनः प्रयोजनवाक्यापदेशात्सूत्रे प्रवर्तितो भवति । यदि तहतमेव प्रयोजनमभिधीयते नान्यगतम् । न ह्यन्यदीयप्रयोजनाभिधानादन्यत्र कस्यचित् प्रवृत्तिर्भवेत्। सूत्रं च विशिष्टार्थप्रतिपादनपरं वचनमुच्यते नाभिधेयमाचं नापि शब्दमात्रमर्थप्रतिपादनसामर्थ्यशून्यमतो नाभिधेयादिगतमभिधानीयम् ।
न तु क्रियारूपं प्रयोजनम् । तथा हि सर्ववाक्यानां स्वार्थाभिधेयप्रतिपादनलक्षणक्रिया साधारणा। सा चातिप्रतीततया प्रयोजनत्वेन नोपादानमर्हति। तस्यां शास्त्रस्य