________________
अभिसमयालङ्कारालोकः
ॐ नमः सर्वज्ञाय ।
या सर्वज्ञतया नयत्युपशमं शान्तैषिणः श्रावकान् । या मार्गज्ञतया जगद्धितकृतां लोकार्थसंपादिका ॥ सर्वाकार मिदं वदन्ति मुनयो विश्वं यया सङ्गताः । तस्मै श्रावक बोधिसत्त्वगणिणो बुद्धस्य मात्रे नमः ॥ १ ॥ मायारूपसमानभावविदुषां मुक्तिं परां योगिनाम् । संसारोदरवर्तिदोषनिचये संमुर्च्छितान् देहिनः ॥ मैत्रेयेण दयावता भगवता नेतुं स्वयं सर्वथा । प्रज्ञापारमितानये स्फुटतरा टीका कृता कारिका ॥२॥ भाष्यं तत्त्वविनिश्चये रचितवान् प्रज्ञावतामग्रणौ । आर्यासङ्ग इति प्रभास्वरयशास्तत्कर्तृसामर्थ्यतः ॥ भावाभावविभागपक्षनिपुणज्ञानाभिमानोन्नतः । आचार्यो वसुबन्धुरर्थकथने प्राप्तास्पदः पडतौ ॥ ३ ॥ योगाभ्यासपदार्थतत्त्वमथनाल्लोकोत्तरज्ञानिनो । जातस्त्वार्यविमुक्तिसेनसुधियो यत्नो महान् वृत्तितः ॥ एकान्तोत्थविपक्षदृष्टिशमने शास्त्राम्बुधौ बुद्धवान् । यो लेाके स विमुक्तिसेनवचसा ख्यातोऽपरो वार्त्तिके ॥ ४ ॥ वक्तुं तच न मद्दिधाः क्षतधियोऽपूर्वं कथंचित्क्षमाः । संक्षुलो हि बुधौत्तमैरहरहः कोऽसौ न वस्तुक्रमः ॥