________________
त्रिंशत्तमपरिवर्तः ।
त्मकत्वप्रतिपादनार्थं निःस्वभावा इत्यादि (p. 484, 1) पश्चपदोपादानम् । मायोपमा इत्यादि । पुनरुक्त देशनायाः प्रागुक्तं प्रयोजनं सप्तवर्षाण्येक समाधिसमापन्नमार्यं धर्मोगतं बोधिसत्त्वमुपलभ्य न शिथिलवौर्येण भाव्यमित्याह । अपरमपि त्वमित्यादि । प्रतिवाणिरिति प्रतिकुलता कियद्दूरं मया गन्तव्यमिति सम्भारभूमौ ।
५३८
ध्यानाभिज्ञाभिनिर्हाराल्लोकधातून् स गच्छति । पूजार्थमप्रमेयाणां बुद्धानां श्रवणाय च ॥ अप्रमेयानुपास्यासौ बुद्धान् कल्पैरमेयगैः । कर्मण्यतां परामेति चेतसस्तदुपासनात् ॥ इति वचनादभिज्ञासद्भावेऽपि आर्यधर्मोद्गतविमोक्षदर्शन
शक्तिवैकल्यादार्यधर्मोद्गतस्यैवाधिष्ठानात्तत्परिपाचनोपायकौशलातिशयाददर्शनेनार्यधर्मोद्गतविमोक्षप्रभावितगन्धवत्या नगयाः कियद्दूरं मया गन्तव्यमिति निर्घोषो मया न पृष्ट इत्यर्थः। तत्र रुदितमुच्चैःस्वरेण क्रन्दितं तद्विपर्ययादित्येके । रुदितमश्रुविमोक्षणं क्रन्दितं तदेव सशब्दमित्यपरे । शोकश्चित्तवैरस्यं परिदेवो हाकष्टं वञ्चित इत्यादिवचनम् । पूर्वोक्तधर्मपुद्गलनैरात्म्याववादादभ्यारब्धप्रज्ञापारमितामनस्कारत्वाच्च सम्भारभूमावेव चित्तकर्मण्यतायां सत्यां धर्मसोतो नाम समाधिं प्रतिलभते यस्य प्रतिलम्भाद्वन्यार्थग्रहणसमर्थो भवति । तस्मिंश्च समाधौ प्रतिलब्धे बुद्धेभ्योऽववादं समाधिप्रज्ञयोरभिवृद्ध्यर्थं प्राप्नोतीत्याह । अथ खलु सुभूते सदाप्ररुदितस्य बोधिसत्त्वस्येत्यादि (p. 485, 6 ) । तथोत्कण्ठितस्येति । तथा संजाताभिलाषस्य