________________
अभिसमयालङ्कारालोकः
५३७
सर्वधर्माभिनिवेशविविक्तमायोपमज्ञानस्य साक्षात् क्रियार्थमानिमित्तः समाधिः योगिसंवृत्या तथ्यारूपस्य परिनिष्पन्न
परतन्त्रस्य
स्याधिगन्तव्यस्वभावत्वात्पुद्गलधर्माभिनिवेशस्य
प्रहाणार्थमप्रणिहितः समाधिः । ग्राह्यग्राहकाभिनिवेशस्य
विपर्यासप्रभवत्वेन प्रहेयत्वात् । श्रुतचिन्ताभावनामयज्ञानोत्पादकालेषु मायापुरुषेणेवाचरितव्यमिति प्रतिपादनार्थं निमित्तपरिवर्जितेनेत्यादि पदत्रयमित्येके । शून्यतादिसमाधौ प्रयोगमौलपृष्ठावस्था स्वित्यपरे । कल्याणमित्रलक्षणार्थमाह । यानि शून्यतेत्यादि । तत्र सम्भारभूमौ पुण्यसम्भारोपार्जनार्थं शून्यतानिमित्ताप्रणिहितानधिमुक्तिचर्याभूमौ तु ज्ञानसम्भारात्मकनिर्वेधभागौयोत्पादनार्थं यथाक्रममनुत्पादाजातानिरुद्धाभावान् सर्वधर्मान् देशयन्तीत्यर्थः । परितुलयमानेनेति (p 183, 6) परिगणयता । धर्मार्थिकेनेति । अनागतधर्मप्रयोजनदर्शनात् । धर्मगौरवेणेति । प्रत्युत्पन्नानुशंसोपलम्भात् । अष्टपट्यां चौसहस्रैः सार्धं पञ्चभिः कामगुणैः समन्वितमार्यं धर्मोतं बोधिसत्त्वं दृष्ट्वा न चित्तस्यान्यथात्वं कार्यमित्यादि । मार कर्माणि च त्वयावबोद्धव्यानीत्यादि । तांश्चाभिभूयेति । तदायत्तत्वाभावेनाभिभूय । उपायकौशल्यमेव कथयन्नाह । एष सत्त्वविनयेनेत्यादि । संवृतिसत्याश्रयेोपायं निर्दिश्य परमार्थसत्याश्रयेणाह । तत्क्षणञ्च त्वयेत्यादि । तत्क्षणमिति । पञ्चकामगुणक्रौडकदर्शनानन्तरम् । तथैव तत्कस्य हेतोरित्याशङ्कयाह । सर्वधर्मा हौत्यादि । स्वभावेन श्रन्या इति । तत्त्वेनानुत्पन्नाः । रूपादिपञ्चस्कन्धानां निरा