________________
५३६
त्रिंशत्तमपरिवर्तः ।
मितां मनसि कुर्वन् पूर्वी दिशं गच्छवं श्रोष्यसौत्यववादो दत्तः स्यात् । तथाहि समाधिगुणेष्वभिसम्प्रत्ययलक्षणया योगिन श्रद्धया छन्दः समुत्पद्यते। ततः छन्दबलाहौर्यमारभते। ततो बौर्यबलेन कायचित्तप्रसब्धिमासादयति । ततः प्रस्रब्धकायचेतसः कौसौद्यं व्यावर्तते। तस्माच्छ्रडादयश्चत्वारः कौसौद्यप्रहाणाय भवन्ति। स्मृतिरालम्बनसम्प्रमोषस्य प्रतिपक्षः, तया सम्यगालम्बनोपस्थापनात् । सम्प्रजन्यं लयौइत्ययोः प्रतिपक्षः। तेन प्रामोद्यवस्तुबुद्धादिगणमनसिकाराल्लयस्य, मंवेगवस्त्वनित्यतादिमनसिकारादौडत्यस्य प्रहाणालयौहत्यप्रशमनकाले त्वनाभोगदोषः। तत्प्रतिपक्षण चेतनाऽभ्यसनीया। लयौहत्यप्रशमे सति यदा चित्तमालम्बने निष्पकम्पमनभिसंस्कारवाहि प्रवृत्तं भवति, तदा पुनराभोगदोषस्तेन चित्तविक्षेपात् अतस्तत्प्रतिपक्षणोपेक्षा भावनौयेति । सम्यगववादलाभादभ्यपगमार्थमाह। एवं वै करिष्यामौति । नियुक्तिक एवायमभ्युपगम इति तत्कस्य हेतोरित्याशङ्याह। अहं हि सर्वसत्त्वानामालाकं कर्तुकाम इत्यादि। सुगमः । पुगलनैरात्म्यमुखेनानुशास्य धर्मनैरात्म्यहारेणानुशासयनाह। पुनरपि शब्दमश्रौषौदित्यादि।
परिज्ञायै प्रहाणाय पुनः साक्षात् क्रियां प्रति । शून्यतादिसमाधीनं विधार्थः परिकीर्तितः ॥ इति वचनाद्येनाकारेण प्रतिभासते स घटाद्याकारः कल्पितस्वभावस्तस्य परिज्ञानार्थं शून्यतासमाधिरुक्तः । कल्पितो हि स्वभावः परिज्ञेयो भ्रान्तिमात्रेण सत्त्वात्।