________________
अभिसमयालयारालोकः ।
५२७
২৩
न्यग्रोधपरिमण्डलता ॥ २२॥ विहाराद्यभ्यधिकप्रदानादष्णौषशिरस्कता ॥ २३॥ श्लक्ष्णादिवचनात्प्रभूतजिह्वता ॥२४॥ सर्वलोकधातुसत्त्वसद्धर्मविज्ञपनाब्रह्मस्वरता ॥२५॥ सम्भिन्नप्रलापविरत्या सिंहहनुता ॥ २६ ॥ सर्वजनसम्मानादिना शुक्लदन्तता ॥ २७॥ विशुद्धाजीवत्वात्समदन्तता ॥२८॥ सत्यवचनसमुदाचारादविरलदन्तता ॥ २६ ॥ पिशुनवचनानभ्यासात्समचत्वारिंशद्दन्तता ॥ ३० ॥ सर्वसत्त्वैकपुत्रदर्शनादभिनौलनेत्रता ॥ ३१॥ प्रतिघातादिविवेकदर्शनाहोपक्ष्मनेत्रता चेति ॥ ३२॥ तथा चोक्तम् ।
चकाङ्कहस्तःक्रमकूर्मपादो
___ जलावनड्वाङ्गुलिपाणिपादः। करौ सपादौ तरुणौ मृदू च
समुत्सदैः सप्तभिराश्रयोऽस्य ॥ १३ ॥ दौर्घाङ्गुलिायतपाणिर्गात्रं
प्राज्यं त्वच्छङ्क्षपदोर्द्धरोमा। एणेयजश्च पटूरुबाहुः
कोशावधानोत्तमवस्तिगुह्यः ॥ १४ ॥ सुवर्णवर्णः प्रतनुच्छविश्च
प्रदक्षिणकैकसुजातरोमा। जर्णाङ्कितास्यो हरिपूर्वकायः
स्कन्धौ वृतावस्य चितान्तरांसः ॥ १५ ॥ होनो रसः ख्यातिरसोत्तमोऽस्य
__न्यग्रोधवन्मण्डलतुल्यमूर्तिः । उष्णौषमूर्धा पृथुचारुजिह्वो
ब्रह्मखरः सिंहहनुः सुशुक्लाः ॥ १६ ॥