________________
५२८
ऊनविंशत्तमपरिवर्तः ।
तुल्याः प्रमाणेऽविरलाश्च दन्ता
ऽन्यूनसंख्या दशिकाश्चतस्रः । नौलेक्षणो गोषपक्ष्मनेत्रो
द्वात्रिंशदेतानि हि लक्षणानि ॥ १७ ॥ यस्य यस्यात्र यो हेतुर्लक्षणम्य प्रसाधकः । तस्य तस्य प्रपूर्यायं ममुदागमलक्षणः ॥ १८ ॥ गुरूणामनुयानादिदृढता संवरं प्रति । महामेवनं दानं प्रणौतस्य च वस्तुनः ॥ १६ ॥ वध्यमोक्षसमादानं विद्धिः कुशलस्य च । इत्यादिको यथासूत्रं हेतुर्लक्षणसाधकः ॥२०॥ इति अशोत्यनुव्यञ्जनानि पुनर्यदत सर्वसंस्कारविविक्तत्वेन ताम्रनखता ॥ १ ॥ मर्वसत्त्वहिताध्याशयत्वेन स्निग्धनखता ॥२॥ श्रेष्ठवंशप्रभवत्वेन तुङ्गनखता ॥३॥ वृत्तानवद्यत्वेन वृत्ताङ्गुलिता ॥ ४ ॥ समुपचितकुशलमूलत्वेन चिताङ्गलिता ॥५॥ सम्यगनुपूर्वप्रत्तत्वेनानुपूर्वाङ्गलिता ॥६॥ सुनिगढकायादिकर्मान्ताजौवित्वेन गढशिरता ॥ ७ ॥ क्लेशग्रन्थिभेदकत्वेन निर्गन्यिशिरता ॥ ८॥ सुनिगढधर्ममतित्वेन गूढगुल्फता॥६॥ मर्वदर्गस्थानजनोत्तारकत्वेनाविषमपादता॥१०॥ नराभिभवनकुशलतया सिंहविक्रान्तगामिता ॥ ११ ॥ नागाभिभवनकुशलतया नागविक्रान्तगामिता ॥ १२॥ वैहायसङ्गमकुशलतया हसंविक्रान्तगामिता ॥ १३॥ पुरुषवृषभकुशलतया वृषभविक्रान्तगामिता॥१४॥ प्रदक्षिणमार्गानुयाततया प्रदक्षिणगामिता ॥१५॥ प्रासादिककुशलतया चारुगामिता ॥१६॥ नित्यमवक्रचित्ततयाऽवक्रगामिता ॥१७॥ विशुद्धगुणाख्यापकतया