________________
५२६
ऊन त्रिंशत्तमपरिवर्तः।
द्वात्रिंशल्लक्षणाशीत्यनुव्यञ्जनविराजितगात्रो रूपकायस्वभावस्तृतीयो बुद्धस्य भगवतो ग्राह्यः । तथा चोक्तम् । हाशिल्लक्षणाशौतिव्यञ्जनात्मा मुनेरयम् । माम्भोगिको मतः कायो महायानोपभोगतः॥१२॥ इति
तानि पुन त्रिशल्लक्षणानि ॥ यदत गुरूणामनुगमनप्रत्युगमनादिना चकाङ्कहस्तपादता ॥ १॥ दृढसंवरसमादानत्वात्कर्मवत्सुप्रतिष्ठितपादता ॥ २॥ चतुःसंग्रहवस्तुसेवनाद्राजहंसवज्जालबड्वाङ्गुलिपादता ॥ ३॥ प्रणीतखाद्यभोज्यादिना मदतरुणहस्तपादता ॥ ४ ॥ प्रणीततरलेह्यादिदानेन समुच्छ्रितहस्तपादस्कन्धौवाप्रदेशत्वासप्तोच्छ्रयता ॥ ५ ॥ वध्यमोक्षणत्वाद्दौर्धाङ्गुलिता ॥ ६ ॥ जौवितानुग्रहकरणादायतपार्णिता ॥ ७॥ प्राणातिपातविरत्या वृहदृजुगावता॥८॥ कुशलधर्मसमादानादुच्छङ्खपादता ॥ ६॥ गृहीतकुशलसमादानवर्धनादूर्ध्वगरोमता ॥ १० ॥ सत्कृत्यविद्याशिल्यादिदानादेणेयजङ्घता ॥ ११ ॥ संविद्यमानार्थयाचनकजनाप्रत्याख्यानात्पटूरूबाहुता ॥१२॥ सर्वजनब्रह्मचर्यसमादापनगुह्यमन्त्रारक्षणात् कोशगतवस्तिगुह्यता ॥१३॥ प्रणौतोपास्तरणदानात्सुवर्णवर्णता ॥ १४ ॥ प्रासादावरणदानाच्छूक्ष्णच्छविता ॥ १५ ॥ सङ्गणिकादिपरिवर्जनात्प्रदक्षिणावर्तेकैकरोमता ॥ १६ ॥ सर्वगुरुजनयथास्थाननिवेशनादूर्णाङ्कितमुखता ॥ १७ ॥ सर्वथा मुखरवचनादनवसादनात् सिंहपूर्वाईकायता ॥ १८ ॥ प्रियवादित्वसुभाषितानुलोमत्वात्सुसंवृतस्कन्धता ॥ १६ ॥ भैषज्यादिदानाच्चित्तान्तरात्मता ॥२०॥ ग्लानजनोपस्थानाद्रसरसाग्रता ॥२१॥ वनारामादिकरणसमादापना