________________
अभिसमयालङ्कारालोकः ।
५२५
कल्याणमित्रादिसमवधानाडुद्धाद्यालम्बने परिपोषं गते हेतौ पूर्वावरोपितकुशलमूलबौजे सति, यस्य सत्त्वस्य यस्मिन् काले धर्मदेशनादिकं क्रियमाणमायतिपथ्यं भवति, तदा तस्यार्थकरणाय पूर्वप्रणिधानसमृड्या तत्प्रतिभासानुरूपेणार्थक्रियाकारौ भगवानिति । महाकरुणास्वभावधर्मकायावस्थानेन सर्वदा चिन्तामणिरिवोपस्थितोऽपि स्वकर्मापराधजनितहेतुवैधुर्यान्न फलदायकः प्रतिभासते । अतो यथा देवराजे वर्षत्यपि मति पूतीभावादिनाऽबौजीभूतं बीजं तिलादि न प्रादुर्भवति, तबडुवानां सकलमनोरथपरिपूरणदक्षाणां ममुत्पादेऽप्यभव्यो न भद्रं सद्धर्मश्रवणादिकं प्राप्नोतीत्यवसातव्यम् । तथा चोक्तम् ।
परिपाकं गते हेतौ यस्य यस्य यदा यदा । हितं भवति कर्तव्यं प्रथते तस्य तस्य सः ॥ ६ ॥ वर्षत्यपि हि पर्जन्ये नैव बौज प्ररोहति । समुत्पादेऽपि बुद्धानां नाभव्यो भद्रमश्नुते ॥१०॥ इति यथोक्तन्यायेनैवं मर्वत्र प्रतिभासदारेणार्थक्रियाकरणवैपुल्यात् । प्रबन्धतयाऽऽसंमारमवस्थानेन च भगवतः क्षयाभावाद्यथाक्रमं बुद्धोऽव्ययो नित्य इत्यभिधीयते । तस्मात् कथं ज्ञानात्मको धर्मकायः प्रतिनियतयोगिसन्तानाधारवतौ प्रतिक्षणमुत्पद्यमानी व्यापी नित्य इत्यपि कथ्यत इति न मन्तव्यम् । तथा चोक्तम् ।
इति कारिववैपुल्याडुडो व्यापी निरुच्यते ।
अक्षयत्वाच्च तस्यैव नित्य इत्यपि कथ्यते ॥११॥ इति तदनु दशभूमिप्रविष्टमहाबोधिमत्त्वैः सह परमानवद्यमहायानधर्मसंभोगग्रौतिसुखोपभोगात्साम्भोगिकोऽयं कायो