________________
५२४
ऊनविंशत्तमपरिवर्तः ।
इति कारिकायां स्वाभाविकशब्दानन्तरं धर्मकायशब्दस्यापाठात् कायत्रयमेवेति। अन्ये तूपदर्शितप्रयोजनसामर्थ्यात्कारिकाबन्धानुरोधेन ज्ञानस्यैव कारित्रण सम्बधार्थश्चैवमुक्तमतोऽविरुद्ध सर्व प्रदेशान्तराभिहितं कायचतुष्टयं भवतीति। स्यादेतच्छावकाद्यरणासमाधेस्तथागतस्य को विशेषोऽरणासमाधेरिति । माऽस्माद्दर्शनात्कस्यचित् क्लेशोत्पत्तिः स्यादितिमनुष्यलेशोत्पत्तिपरिहारिता श्रावकाद्यरणासमाधिः। तथागतानां तु सकलजनक्लेशप्रबन्धोन्मूलनं स्यादिति ग्रामादिधरणासमाधिविशेषः । तथा चोक्तम् ।
श्रावकस्यारणादृष्टेक्लेशपरिहारिता। तत् क्लेशस्रोत उच्छित्त्यैग्रामादिषु जिनारणा ॥७॥ इति श्रावकादिप्रणिधिज्ञानात्तथागतप्रणिधिज्ञानस्य को विशेष इति चेत् उच्यते। निर्निमित्तत्वेन स्वरसप्रहत्तं वस्त्वनभिनिवेशाद्रपादिसङ्गविगतं सवासनक्लेशज्ञेयावरणप्रहाणात्सर्वज्ञेयाव्याघातमासंसारमवस्थानात्सदा स्थितम्, सम्यक् प्रतिसंविल्लाभात्प्रश्नविसर्जनकारि ताथागतं प्रणिधिज्ञानमिति श्रावकादिप्रणिधिज्ञानादिशिष्टमिष्टम् । तथा चोक्तम् ।
अनाभोगमनासङ्गमव्याघातं सदा स्थितम् । सर्वप्रश्नापनुद्दौड़ प्रणिधिज्ञानमिष्यते ॥८॥ इति सवासनसुसूक्ष्मलेशज्ञेयावरणसंमोहदयग्रहाणप्रतिविशिष्टत्वेन सर्वेषामेव तथागतसन्तानवर्तिबोधिपक्षादिधर्माणां निरतिशयविशेषसद्भावादेतविशेषडयमन्तरोदितमुपलक्षणत्वेन ग्राह्यम्। स्यादेवं नित्यं महाकरुणामयधर्मकायावस्थाने कथं सकलप्राणभृतां सदा नार्थक्रियेति ।