________________
अभिसमयालयागलोकः ।
५०४
द्यप्रमाणगणगर्भत्वेन हर्षकरणात् । तृतीयविकल्पार्थमाह। अरत्यविरतित इति । अशून्यत्वविकल्पनिरासार्थं सर्वधर्मेषु मायोपमत्वेनाभिनिवेशानभिनिवेशवियोगात् । चतुर्थविकल्पार्थमाह। अरक्ताविरक्ततयेति। सक्तिविकल्पनिरासार्थ सर्वधर्माणां धर्मधातुस्वभावेन रागारागविविक्तत्वात् । तदेव कथयितुं तत्कस्य हेतोरित्याशङ्ख्याह । रूपं होत्यादि। सतत्त्वेनेति । तत्त्वपर्याय एव सतत्त्वशब्दो द्रष्टव्यः । पञ्चमविकल्पार्थमाह। प्रकृतिपरिशुद्धत्वादिति । मर्वधर्मप्रविचयविकल्पनिरासार्थं सर्वधर्माणां स्वभावानुत्पन्नत्वेन परिशुद्धत्वात्। षष्ठविकल्पार्थमाह। सर्वधर्मा इत्यादि। वढद्देशविकल्पनिरासार्थं मायोपमत्वेन सङ्गासङ्गविगमादसक्तत्वेन सर्वधर्माणाम् । सप्तविकल्पार्थमाह। बोधिरित्यादि (p. 477. I)। यानत्रितयनिर्याणविकल्पनिरामार्थम् ।
धर्मधातुविनिर्मुक्तो यस्माद्धर्मो न विद्यते । इति बुद्धज्ञानावबोधनतया मर्वधर्माणां बोधिस्वभावत्वेन। अष्टमविकल्पार्थमाह। सर्वधर्मशून्यानिमित्त इत्यादि । दक्षिणाऽशुद्धिविकल्पनिरामार्थम् । मर्वधर्माणां त्रिविमोक्षस्वभावत्वेन । नवमविकल्यार्थमाह। सर्वधर्माभैषज्यमित्यादि। चर्याविकोपनविकल्पनिरासार्थम् । मैत्रीस्वरूपतया द्वेषादिदोषप्रशमनेन सर्वधर्माणां भैषज्यस्वाभाव्यात् । एतदुक्तम् । द्रव्यसदनुपपत्त्या सत्त्वप्रज्ञप्तौ प्रतिभासमात्रत्वात् मर्वधर्मप्रज्ञप्तौ सर्वत्रगत्वात् सर्वाकारज्ञतादिधर्माशून्यत्वे सर्वथाभिनिवेशप्रहाणाधर्मसतौ