________________
५००
ऊनत्रिंशत्तमपरिवर्तः ।
लम्बनपुण्याभावाबोधिमण्डामनस्कारे श्रावकगोवत्वात्तद्यानमनस्करणे प्रत्येकबुद्धगोवत्वात्तद्यानामुखीकरणे प्रज्ञापारमिताप्रतिपत्तिवैधुर्यात्सम्यक्सम्बोध्यमनस्करणे सोपलम्भत्वेन भावनायां निरूपलम्भवत्त्वेनाभावनायामनुपलम्माननुपलम्भत्वान्नभावनानाभावने विपरीताभिनिवेशादयथार्थत्वे च भावाद्यभिनिवेशाद्दष्टत्वेन निवृत्तिर्मया कार्येत्येवं नित्तिपक्षाधिष्ठानो द्वितीयो ग्राह्यविकल्पो नवप्रकारो भावनामार्गे चित्तचैत्तप्रवृत्त्यवस्थायां बोधिसत्त्वानां प्रहेयस्तत्तत्प्रतिपक्षावस्थाप्रतिपादनेन व्यतिरेकमुखेनोक्त इति । तथा चोक्तम् ।
द्वितीयश्चित्तचैत्तानां प्रत्तिविषयो मतः ॥२७॥ अनुत्पादस्तु चित्तस्य बोधिमण्डामनस्क्रिया। हीनयानमनस्कारौ सम्बोधेरमनस्कृतिः ॥२८॥ भावनेऽभावने चैव तद्विपर्यय एव च ।
अयथार्थश्च विज्ञेयो विकल्पो भावनापथे ॥२६॥ इति द्वितीयमेवं ग्राह्यविकल्पं निर्दिश्य प्रथमग्राहकविकल्पो नवप्रकारो वक्तव्य इति। प्रथमविकल्पार्थमाह। सर्वधर्मादेशाप्रदेशत इति। सत्त्वप्रज्ञप्तिविकल्पनिरासार्थं सर्वधर्माणां प्रकृत्या धर्मधातुस्वभावत्वेन सामान्यविशिष्टदेशविविक्तत्वात्। तदेव स्पष्टयन्तत्कस्य हेतोरित्याशङ्याह । रूपं होत्यादि। प्रकृतिस्वभावत इति । शून्यताप्रकृतित्वेन सामान्यविशेष देशविविक्तस्वभावत्वात्। द्वितीयविकल्यार्थमाह। सर्वधर्मनिरोधप्रह्लादनत्वादिति। धर्मप्रज्ञप्तिविकल्पनिरासार्थं सर्वधर्माण निरोधस्य शून्यतोरकरुणा