________________
अभिसमयालङ्कारालोकः ।
बोधिचित्तानुत्पादविकल्पापनोदाथं सर्वधर्माणां धर्मधातुरूपेणाधिगमात्। द्वितीयविकल्पार्थमाह। सर्वधर्मप्रकृतिपरिशुद्धित इति (p. 476, 1)। बोधिमण्डामनसिकारविकल्पापनोदार्थं सर्वधर्माणां स्वभावविशुद्धिपरिज्ञानात् । तृतीयविकल्यार्थमाह। सर्वधर्मावचनत इति। श्रावकयानमनसिकारविकल्पापनोदनाथं सर्वधर्माणां वाक्यथातिक्रान्तत्वात् । चतुर्थविकल्पार्थमाह। सर्वधर्माणामनिरोधतः प्रहाणसमतयेति । प्रत्येकबुद्धयानमनसिकारविकल्पापनोदार्थं सर्वधर्माणामुत्पादाभावेनानिरोधात् प्रहाणतुल्यत्वेन। पञ्चमविकल्पार्थमाह। सर्वधर्माणां निर्वाणप्राप्तित इति। मम्यक्सम्बोधेरमनसिकारविकल्पापनोदार्थ तथतासमतया मर्वधर्माणां निर्वाणाधिगमात् । षष्ठविकल्यार्थमाह। मर्वधर्मा इत्यादि। भावनाविकल्यापनोदार्थमतीतानागताध्वनीरसत्त्वाद्यथाक्रमं नागच्छन्ति न गच्छन्तिऽतस्मादजानानाः सन्तो धर्मा वर्तमाने नोत्पन्ना धर्मधातुरिवात्यन्तानुत्पादात् । सप्तमविकल्पार्थमाह। आत्मपरादर्शनत इति। अभावनाविकल्पापनोदाथे स्वपरानुपलम्भात् । अष्टमविकल्पार्थमाह । सर्वधर्मा इत्यादि। नैवभावनानाभावनाविकल्पापनोदार्थमुत्पादादिदोषाभावादार्या भावनाऱ्यादर्हन्तो यस्मान्मायोपमत्वेन स्वभावविशुद्धत्वात् । नवमविकल्पार्थमाह । अपहृतभारा इति। अयथार्थविकल्यापनोदार्थं क्लेशज्ञेयावरणभाराभावादपहृतभारत्वेन। एतदुक्तं भवति । कल्याणमित्रादिवैकल्याहोधिचित्तानुत्पादे विशिष्टबुवा