________________
५०६
ऊनत्रिंशत्तम परिवर्तः ।
सर्वधर्मा अव्यवहारा इत्यादि । प्रयोगमार्गविकल्प प्रहाणार्थं सर्वधर्माणां मायोपमत्वेन श्रुतचिन्तालौकिकलोकोत्तरज्ञानैर्यथाक्रममभिलपयितुमशक्यत्वादव्यवहाराऽव्याहाराव्यवहृताव्याहृतत्वेन । अष्टमविकल्पार्थमाह । सर्वधर्माप्रमाणत इति । दर्शनमार्गविकल्पप्रहाणार्थं धर्मधातुरूपेण सर्वधर्माणामप्रमाणत्वात् । तदेव स्पष्टयन्नाह । रूपाप्रमाणत इत्यादि । नवमविकल्पार्थमाह । सर्वधर्मानिमितत इति । भावनामार्गविकल्पप्रहाणार्थं सर्वधर्माणां शून्यत्वेनानिमित्तत्वात् । एतदुक्तं स्यात् । संक्षिप्तरुचिसत्त्वानुग्रहेण धर्मसंक्षेपे विस्तररुचिसत्त्वानुकम्पया धर्मविस्तरे यथाविहितार्थानानुष्ठानेन बुद्धसानाथ्यापरिग्रहे समुत्पन्ननिरुद्धत्वेन प्रयोगमार्गगुणाभावे सम्यगुत्पत्तिवैधुर्याद्दर्शनमार्गगुणाभावे अनागतासत्त्वेन भावनामार्गगुणाभावे शान्तत्वादिना निर्वाणप्रयोगमार्गे शून्यताभिनिर्धारत्वेन दर्शनमार्गे नैः स्वाभाव्यभावकत्वेन भावनामार्गे च मायोपमतया प्रवृत्तिर्मया कार्येत्येवं प्रवृत्तिपक्षाधिठानः प्रथमो ग्राह्यविकल्पो नवप्रकारो भावनामार्गप्रयोगावस्थायां बोधिसत्त्वानां प्रहेयस्तत्तत् प्रतिपक्षावस्थाप्रतिपादनेन व्यतिरेकमुखेनोक्त इति । तथा चोक्तम्, -
संक्षेपे विस्तरे बुद्धैः सानाथ्येनापरिग्रहे । चैकालिके गुणाभावे श्रेयसस्त्रिविधे पथि ॥ २६ ॥ एको ग्राह्यविकल्पोऽयं प्रयोगाकार गोचरः । इति प्रथममेवं निर्दिश्य द्वितौयो ग्राह्यविकल्पो नवप्रकारो वक्तव्य इति । प्रथम विकल्पार्थमाह । सर्वधर्मनिर्वेधत इति ।