________________
अभिसमयालयागलोकः ।
५०५
भावनामार्गमेवमभिधाय तत्र प्रहेयश्चतुर्विधो ग्राह्यग्राहकविकल्पः विपक्षप्रतिपक्षप्रतिपादनपरत्वेन वक्तव्य इत्युपोहातयन्नाह। पुनरपरमित्यादि (12. 475. 2)। तत्र च प्रथमो ग्राह्यविकल्पो विषयभेदान्नवधेति। प्रथमविकल्पार्थमाह। सर्वधर्मासङ्गतः प्रज्ञापारमितानुगन्तव्येति। सर्वधर्मसंक्षेपविकल्पप्रहाणार्थं सर्वधर्मानभिनिवेशाद्भावनामार्गो भावयितव्यः। एवमुत्तरत्रविकल्पाधिकारे प्रज्ञापारमितार्थो भावनामार्गार्थ इत्यवगन्तव्यम् । द्वितीयविकल्पार्थमाह। मर्वधर्मामम्भेदत इति। धर्मविस्तरविकल्पग्रहाणार्थं सर्वधर्माणां धर्मधातुरूपेणासम्भेदादेकरूपत्वात् । तृतीयविकल्यार्थमाह। मर्वधर्मासम्भवत इति तथागतमानाथ्याभावविकल्पप्रहाणार्थं सर्वधर्माणां तत्त्वेनानुत्पादात्। चतुर्थविकल्पार्थमाह । सर्वधर्मानिर्विकारममा इति। प्रयोगमार्गगुणाभावविकल्पग्रहाणार्थ सर्वधर्माणां धर्मधातुनानिर्विकारेण तुल्यत्वात्। पञ्चमविकल्पार्थमाह । सर्वधर्माणामनात्माविज्ञप्तितः प्रज्ञानुबोधनत इति। दर्शनमार्गगुणाभावविकल्पग्रहाणार्थ सर्वधर्माणामनात्मरूपेणाविज्ञानरूपमिति प्रज्ञयाऽवबोधात् । षष्ठविकल्पार्थमाह । सर्वधर्माश्च नाममात्रेण व्यवहारमात्रेणाभिलप्यन्त इति। भावनामार्गगुणाभावविकल्पग्रहाणार्थमन्तर्जल्पबहिर्जल्पमात्रेण सर्वधर्माणां संरत्याभिलपनात्, बहिर्जल्ये तु कस्यचिदभिनिवेश इत्याह। व्यवहारश्चेत्यादि। सप्तमविकल्पार्थमाह।
विना