________________
ऊनत्रिंशत्तम परिवर्तः ।
निःस्वभावावबोधेन धर्मप्रविचये समुद्देशाकरणेन वस्त्रद्देशकरणे रूपाद्युपलम्भत्वाद्यानत्रयनिर्याणे सम्यगप्रतिपन्नत्वेन दक्षिणाऽशुद्धौ दानाद्यपलम्भप्रपिपत्त्या चर्याविकोपने च द्रव्यसन्नेवात्मा ग्राहक इत्येवं द्रव्यसत्पुरुषाधिष्ठानः प्रथमो ग्राहकविकल्पो नवप्रकारो बोधिसत्त्वानां भावनामार्गप्रयोगावस्थायां प्रहेयस्तत्प्रतिपक्षावस्थाप्रतिपादनेन व्यतिरेकमुखेनोक्त इति । तथा चोक्तम् ।
ग्राहकः प्रथमो जेयः सत्त्वप्रज्ञप्तिगोचरः । धर्मप्रज्ञत्य शून्यत्वसक्तिप्रविचयात्मकः ॥३०॥ कृते च वस्तुनो यानत्रितये च स कौर्त्तितः।
दक्षिणाया अशुद्धौ वा चर्यायाश्च विकोपने ॥३१॥ इति प्रथममेवं ग्राहकविकल्पं निर्दिश्य द्वितीयो ग्राहकविकल्यो नवप्रकारो वक्तव्य इति प्रथमविकल्यार्थमाह । सर्वधर्मा मैत्रौविहारिण इत्यादि। सर्वाकारज्ञतावरणसम्मोहविकल्यापनयनार्थं सर्वधर्माणाञ्चतुर्ब्रह्मविहारस्वाभाव्यात् । द्वितीयविकल्पार्थमाह। सर्वधर्मा ब्रह्मभूता इत्यादि। मार्गज्ञतावरणमंमोहविकल्पापनयनार्थं सर्वदोषाणामहेतुत्वेनानुत्पादकत्वात् सर्वधर्माणां निर्वाणरूपत्वेन । तृतीयविकल्पार्थमाह। सर्वधर्माणामित्यादि। सर्वज्ञतावरणमंमोहविकल्यापनयनाथं सर्वभावानां प्रार्थनाप्रतिघविविक्तत्वेन। चतुर्थविकल्पार्थमाह। समुद्रापर्यन्ततयेति। सर्वशान्तमार्गसंमोहविकल्पापनयनार्थं सर्वधर्माणां दशबलादिगुणरत्नहेतुत्वेन समुद्रसमत्वात्, समुद्रापर्यन्तत्वेन। पञ्चमविकल्यार्थमाह । गगनापर्यन्त