________________
५०२
अटाविंशतितमपरिवर्तः । तस्मिन् प्रहोणे तन्मूला ग्राह्यविकल्पादयः कथमवस्थानं लभेरनिति। अस्मिंश्च दर्शनमार्गे समुत्पन्ने कामरूपारूप्यधातुभेदेन प्रत्येकं चतुर्विकल्पनवप्रकारतयाऽष्टोत्तरशतग्राह्यग्राहकविकल्पग्रहाणेन तत्संगृहौतविकल्पजनकवासनालशाष्टोत्तरशतप्रहाणं प्रतीत्यसमुत्पादधर्मतयोपलभ्य तत्र वशित्वार्थं तामेव पुनःपुनभावयतीत्याह। सर्वाणि चोपायकौशल्यानि इत्यादि। दर्शनमार्गप्राप्तो योगी लेशज्ञेयावरणभयाभावात् सिंहविजृम्भितं नाम ममाधिं समापद्योत्तरकालमविद्या प्रत्ययाः संस्कारा इत्याद्यनुलोमं जरामरणनिरोधो जातिनिरोधादित्यादि प्रतिलोमं प्रतीत्यसमुत्पादं निरूपयति । इदमत्रोपायकौशलं प्रतिपत्तव्यम् ॥ तथा चोक्तम्। स समाधिं समापद्य ततः सिंहविज़म्भितम् ।
अनुलोम विलोमञ्च प्रतीत्योत्पादमौक्षते ॥२३॥ इति दर्शनमार्गमेवमभिधाय विपक्षप्रहाणादिकमाधारप्रतिपत्तिपूर्वकं सुबोधमित्याधारं भावनामार्ग वक्तुमाह। सर्वोपायकौशल्यानि सुभूत इत्यादि। सर्वोपायकौशल्यमत्र भावनामार्गः। स पुनर्नवानुपूर्वसमापत्तिसङ्ग्रहौतस्ताः पुनरवस्कन्दसमापत्तिसङ्ग्रहौता इत्यवगन्तव्यम् । तस्मादेतदक्तं भवति । प्रथमध्यानमारभ्य यावन्निरोधं गत्वा ततो निरोधमारभ्य यावत्प्रथमध्यानमागम्यैवमनुलोमप्रतिलोमक्रमदयेन चतुर्थ्यानचतुरारूप्यनिरोधलक्षणा नवसमापत्तोर्गत्वाऽऽगम्य पुनः प्रथमं ध्यानं समापद्य ततो व्युत्थाय