________________
अभिसमयालधारालोकः ।
५०३
निरोधमेवं यावन्नवसंज्ञानासंज्ञायतनानिरोधं समापद्य ततो व्युत्थायानन्तरसमापत्तिमालख्य कामावचरं विज्ञानं मर्यादारूपेणावस्थाप्योपायकौशल्यबलेन व्युत्थाय तदेव विज्ञानमसमाहितमामुखौकृत्य ततो निरोधं ततोऽसमाहितं ततो निरोधमेकं परित्यज्य नैवंसंज्ञानासंज्ञायतनं ततोऽसमाहितं ततो दयं परित्यज्याकिञ्चन्यायतनं ततोऽसमाहितमेवं यावदष्टौ परित्यज्य प्रथमं ध्यानं समापद्य ततोऽसमाहितमित्येकादिपरित्यागेनानिरोधं यावद्विसदृशहारेण गच्छतौत्यतुल्यगामवस्कन्दसमापत्तिं वशित्वलक्षणां भावनामार्गस्वभावां सर्वोपायकौशल्यात्मिकां परिग्रहीतुकामेन प्रज्ञापारमितायां चरितव्यमिति । तथा चोक्तम्कामाप्तमवधौकृत्य विज्ञानमसमाहितम् । सनिरोधाः समापत्तीर्गत्वाऽऽगम्य नव विधा ॥२४॥ एकदित्रिचतुःपञ्चषट्सप्ताष्टव्यतिकमात् ।
अवस्कन्धसमापत्तिरनिरोधमतुल्यता ॥ २५ ॥ इति पञ्चविंशतिसाहसिकायाममुमेवार्थमधिकृत्य विस्तरेण पुनरिह सुभूते बोधिसत्त्वो महासत्त्वो विविक्तं कामैर्विविक्तं पापकैरकुशलैर्धमैः सवितर्कसविचारं विवेकजं प्रौतिसुखं प्रथमध्यानमुपसम्पद्य विहरतीत्याद्यभिधानान्न सन्देहः कार्यः। यस्त्वाह।
गत्वाऽऽगम्य विधा भूमिरष्टौ श्लिष्टैकलंधिताः । व्युत्क्रान्तकसमापत्तिर्विसभागतृतीयगा ॥ इति वचनात्कथमेवमवस्कन्दसमापत्तिरिति । किं खल वायसस्य पायसेन. सालक्षण्यमन्यदेवेदं प्रस्थानम् ।