________________
अभिसमयालङ्कारालोकः ।
५०१
षट्पारमितापरिपूरिमंग्रहो यथा स्वचं वाच्यः । तस्मादेत - दुक्तं भवति । दानादिषट्पारमितानां प्रत्येकमेकैकभावे दानादौ यः परस्परं सर्वपारमितासंग्रहः, सोऽचैकक्षणिको मूर्धाभिसमये विशुद्धिप्रभावितः षट्चिंशदाकारनिर्जातो दर्शनमार्गो
दुःखधर्मज्ञानक्षान्तिसंगृहीतस्त्रिमण्डल
सातव्य इति ।
तथा चोक्तम् ।
एकैकस्येव दानादौ तेषां यः सङ्घहो मिथः ।
स एकक्षणिकः शान्तिसङ्गृहीतोऽच दृक्पथ ॥ २२ ॥ इति एवंविधविकल्पानां प्रागेव प्रहारणसम्भवात् कथमस्यां प्रकर्षपर्यन्ताधिगमावस्थायां प्रहाणं निर्दिश्यत इति चेत् । नायं दोषो यस्मात्सूक्ष्मगुह्यानुप्रवेशम हाभिज्ञाविबन्धकसम्मोहैा तद्दजं च दशम्यां भूमौ प्रहीयत इत्यार्यसन्धिनिर्मोचनादिचे पठ्यते । तस्माद्यथोक्तमवासनसंमोहनिदानसमुच्छेदेन निदानिनामेवंविधग्राह्यग्राहकचतुविकल्पानां प्रकर्षपर्यन्ताधिगमस्वभावत्वेन दशम्यां भूमौ प्रतिविद्धे मूर्धाभिसमये नियमात् प्रहाणं प्रतिपद्यते । अन्यच कादाचित्कं प्रहाणमिति पूर्वाचार्याः । मन्दबुद्धौनां व्युत्पादनादनुग्रहाभिप्रायेण यथा निर्दिष्टविकल्पानां विषयभेदात् प्रत्येकं नवधा भेदः कृतः । तौक्ष्णबुद्धौनामवज्ञानिराकरणाय नातिप्रभेदस्तथा प्रतिपक्षाणामित्यवगन्तव्यम् । अयं पुनरिह समासार्थः । यथोदिता ग्राह्यग्राहकविकल्पाः सर्व एव विपर्याससमुत्थाः । स च विपर्यासोऽनादिकालीनभावाद्यभिनिवेश लक्षणस्तस्माद्दिपरौतालम्ब - नाकारतया तद्विरोधिनैः स्वाभाव्यज्ञानात्प्रहीयत एव ।