________________
यष्टाविंशतितमपरिवर्तः ।
यथोक्ताविपर्ययस्ततत्त्व भावनया सकलविपक्षधर्मातिक्रम इति । माराणां वैमनस्यप्रतिपादनेनाह । यस्मिन् समये सुभूत इत्यादि (p. 471, 16 ) । पूर्ववत् तत्कस्य हेतोरित्या - शङ्कयाह । प्रज्ञापारमिताविहारेण हौत्यादि (p. 472, 1) | उपसंहरन्नाह। तस्मात्तत्यादि । ननु मुख्यतो दर्शनमार्गस्य महाबोधिकारणत्वात्कथं प्रज्ञापारमितायां चरितव्यमित्युक्तमिति । तत्कस्य हेतोरित्याशङ्क्य । प्रकृतमेव दर्शनमार्गं विस्तरेण वक्तुमाह । प्रज्ञापारमितायां हौत्यादि । प्रत्येकमेवं निर्दिश्य समुदायत्वेन वक्तुं पुनरप्याह । प्रज्ञापारमितायामित्यादि । षट्पारमितापूर्णाधिवचनमेतद्यदुत प्रज्ञापारमितेति । प्राग्वचनात् प्रज्ञापारमिताचर्ययैव षट्पारमिता भावनापरिपूरिं गच्छन्तौत्यर्थः । इह तु ग्रन्थसंक्षेपस्याभिप्रेतत्वादुपलक्षणत्वेन प्रत्येकं दानादिपारमिताचर्ययापि षडेव पारमिता भावनानिष्यत्तिं प्रतिपद्यन्त इत्यवगन्तव्यम् । तथाचोक्तं पञ्चविंशतिसाहस्रिकायाम् । “इह सुभूते बोधिसत्त्वस्य दानं ददतः सत्त्वेषु मैत्रं कायवाङ्मनस्कर्म प्रत्युपस्थितं भवत्येवं शौलपारमिता । तस्यैव प्रतिग्राहकाणामाक्रोशपरिभाषादिक्षमणेन शान्तिपारमिता । तस्यैव याचकाक्रोशपरिभाषादिभिर्दानोत्साहापरित्यागाद्दौर्यपारमिता । तस्यैव च तद्दानं सर्वाकारज्ञतायां परिणामयतः श्रावकप्रत्येकबुद्धभूमिविक्षेपचित्ताभावेन ध्यानपारमिता । तस्यैव दानं ददतो मायाबुद्धिप्रत्युपस्थापनेन कस्यचिदुपकारापकारादर्शनात्प्रज्ञापारमिते "ति । एवं शौलं रक्षतो यावत्प्रज्ञां भावयतः प्रत्येकं
५००