________________
अभिसमयालङ्कारालोकः ।
४६
ग्राहकाकारलक्षणां विज्ञप्तिमाचतामवधूयादयज्ञानमेव केवलं भावतो भावरूपमिति निश्चित्य तदपि प्रतीत्यसमुत्पन्नत्वान्मायावन्निःस्वभावं तत्त्वतोऽपगतैकान्तभावाभावादिपरामर्शरूपमिति भावयन् भावनाबलनिष्पत्तौ केषाञ्चिन्मणिरूप्यादिनानवदत्सारितसकलभ्रान्तिनिमित्ताया मायोपमात्मप्रतिभासधियो निर्विकल्पायाः कथञ्चित् प्रत्यात्मवेद्यायाः समुत्पादे ज्ञेयावरणं सम्यग्योगौ प्रजह्यात्। अन्यथा परैः सर्वदा आकाशस्य द्रव्याभावमात्ररूपधारणवदनाधेयानपनेयस्वरूपधारणाद्धर्माणां क्षणिकानां ज्ञानमात्ररूपाणां ज्ञेयलक्षणानाच्च यदि परमार्थतो विद्यमानता स्यात्तदा प्रतिपक्षभावनया आकाशस्यैव तेषां न किञ्चित् क्रियते। अतो भावाभिनिवेशविपर्यासाविनित्या यद्भगवतः सर्वथा ज्ञेयावरणप्रहाणं धर्माणाञ्च यत्सत्तोपगम्यते तत्परस्परविरुद्धार्थाभ्यपगमे विस्मयस्थानीयं भवेत् । तथा चोक्तम्।
सत्ता च नाम धर्माणां ज्ञेये वावरणक्षयः ।
कथ्यते यत्परैः शास्तुरच विस्मीयते मया ॥२०॥ इति यस्मादेवं भावाभिनिवेशेन मुक्तेरनुपपत्तिरतोऽपवादसमारोपरूपमपनयनप्रक्षेपं कस्यचिद्धर्मस्याकृत्वेदमेव प्रतौत्यसमुत्पन्नं संहत्या तथ्यरूपं रूपादिनिःस्वभावादिरूपतो निरूपणीयमेवञ्च मायागजेनापरमायागजपराजयवहिपर्यासनित्या तत्त्वदशौँ विमुच्यत इति प्रतिपत्तव्यम् । तथा चोक्तम् । नापनेयमतः किञ्चित्प्रक्षेप्तव्यं न किञ्चन । द्रष्टव्यं भूततो भूतं भूतदणे विमुच्यते ॥ २१॥ इति