________________
४.
अष्टाविंशतितमपरिवर्तः।
तिरोभावरूपेण विवर्तनाच्छाश्वतः। अवस्थान्तरप्राप्तिविरहादविपरिणामधर्मकः। कथं पुनरुपलभ्यमानरूपादौनक्षयाकारेणाभिमुखौकुर्यादित्याह। यस्मिन् समये सुभूत इत्यादि। रूपादिसर्वधर्मानुपलम्भेन सर्वात्मधर्मग्राहप्रहाणादर्शनमार्गव्यापारे द्योतितः स्यात्। यस्मादेवं सर्वधर्मादर्शनमतो ये भावविनाशाभिसन्धिना क्षोणे क्षोणमिति ज्ञानं क्षयज्ञानं भावानुत्पादाभिसन्धिना चानुत्पन्नेऽनुत्पन्नमिति ज्ञानमनुत्पादज्ञानं वर्णयन्ति, तेषां क्षयानुत्पादवैकल्यादेतज्ज्ञानं न घटते। तथा ह्यत्पन्नानुत्पन्नयोयथाक्रम क्षयोत्पत्तिविघातलक्षणनिरोधेनानिरुवायां परमार्थतस्तथतारूपायां प्रकृतौ सत्यां कतरदिकल्पादिरूपमुत्पन्नं क्षौणं कतरचानुत्पन्नमनुत्पत्तिधर्मकं जातं दर्शनमार्गबलेन वितथभावाभिनिवेशिनां वादिनां। यावता नैव किञ्चित्। तस्माद्यथोक्तमेव क्षयानुत्पादज्ञानं प्रतिपत्तव्यम् ।
तथा चोक्तंप्रकृतावनिरुवायां दर्शनाख्येन वर्मना। विकल्पजातं किं क्षौणं किश्चानुत्पत्तिमागतम्॥१६॥ इति
अन्यथा तात्त्विकधर्मसत्त्वोपगमे भगवतः सर्वथा विकल्पक्लेशज्ञेयावरणप्रहाणं दुरुपपादं स्यात् । तथा ह्यदयव्ययशून्यत्वान्नास्त्यात्मेति विभावयन्नात्माभिनिवेशं परित्यज्य तद्दिविक्तस्वभावं स्कन्धादिकं प्रतीत्यसमुत्पन्नमुदयव्ययधर्मकं समुपलभ्य नौलतडियोः सहोपलम्भनियमाञ्चित्तमात्रमेवेदं न बाह्यार्थोऽस्तौति मनसिकुर्वनपरित्यक्तग्राहकाकारचित्ताभिनिवेशो बाह्यार्थाभिनिवेशं तिरस्कृत्य ग्राह्याभावे ग्राहकाभाव इति निध्यायंस्तामपि