________________
अभिसमयालङ्कारालोकः ।
४६७
खस्नु सुभूत इत्यादि। तत्र पूर्वजन्मनि क्लेशावस्थेहाविद्या तथा पुण्यादिकर्मावस्था संस्काराः तथेह जन्मनि प्रतिसन्धिक्षणे पञ्चस्कन्धविज्ञानम्। सन्धिचित्तात् परेण षडायतनोत्पादात्पूर्वं नामरूपम्। ततो यावदिन्द्रियविषयविज्ञानत्रिकसन्निपातो न भवति, तावत्पडायतनम् । यावदिनात्रयकारणपरिच्छेदसमर्थो न भवति, तावत् विकसन्निपातात्स्पर्शः। मैथुनरागात्याक्सुखाद्यनुभवावस्था वेदना। विषयपर्येषणावस्थातः प्राक् कामगुणमैथुनरागसमुदाचारावस्था तृष्णा। विषयपर्येषणावस्थोपादानम् । विषयप्राप्तिहेतुपरिधावनोपार्जितपौन विकं कर्म भवः । तेन कर्मणाऽयत्यां पुनः प्रतिसन्धिर्जातिः। ततः परेण यावद्देदनावस्था मा जरामरणमित्याद्यन्तयोर्दै वे मध्यस्थाविति विकाण्डो बादशाङ्गः प्रतीत्यसमुत्पादोऽस्य क्षयाभावादक्षयत्वेनेति पूर्ववत् । शश्वतोच्छेदरहितत्वेनान्तइयवर्जिता प्रतीत्यसमुत्पादव्यवलोकना। अनाद्यन्तमध्यं तमिति। मायोपमत्वेन जन्मनाशस्थितिविरहित प्रतीत्यसमुत्पादं व्यवलोकयति। इत्थंभूत एव प्रतीत्यसमुत्पादो ग्राह्य इत्याह। एवं व्यवलोकयत इत्यादि (p. 469, 11) । तब मनसिकारोऽक्षयाभिनिर्हारः। उपायकौशलं प्रतीत्यसमुत्पादविचारणा। तदेव कथयन्नाह। कथं प्रज्ञापारमितायामित्यादि। संघतेस्तमुच्छेद इति चेदाह। एवं खलु पुनरित्यादि (p. 470. 10)। अहेतुकमिति संस्त्या हेतोर्विद्यमानत्वात्। नित्यमित्यादि। तत्रोत्पादहेतोरसत्वान्नित्यः। उत्पन्नस्य विनाशाभावाचवः। आविर्भाव
63