________________
४६६
अमाविंशतितमपरिवर्तः ।
(p. 468, 12)। एतदक्तम्। क्लेशज्ञेयावरणमलानामुत्पन्नानुत्पन्नत्वेन कल्पितानां,
धर्मधातुविनिर्मुक्तो यस्माद्धर्मो न विद्यते। इति धर्मधातुस्वभावानामाकाशस्येव निरोधोत्यादाभावा देकानेकस्वभावकार्यकारणविचारकप्रमाणाद्युपपन्नभाववैधाहगनकमलवडा यथाक्रमं मलानां क्षयोत्पादाभावादक्षयानुत्पादज्ञानात्मिका सर्वधर्माविपरीताधिगतिलक्षणा महाबोधिर्यथावत्प्रज्ञापारमिता धर्मकायोऽभिधौयत इति । तथा चोक्तम्
क्षयानुत्पादयो ने मलानां बोधिरुच्यते ।
क्षयाभावादनुत्पादात्ते हि ज्ञेये यथाक्रममिति ॥२८॥ एवञ्च तत्त्वे निर्दिष्टे केचिबहुलतरोपलम्भाभिनिवेशेन भावविनाशाभिसन्धिना क्षोणे क्षीणमिति ज्ञानं क्षयज्ञानमनागतभावानुत्पादाभिसन्धिना चानुत्पादज्ञानं वर्णयन्तौति महाबोधिस्वरूपं विप्रतिपत्तिस्थानत्वेनाहत्य प्रतिपादयितुमाह । गम्भौरमिदमित्यादि । तथैवानुवदन्नाह। अक्षयेत्यादि। आकाशाक्षयत्वात्सर्वधर्मानुत्यादत इति। आकाशस्येव क्षयाभावाधर्माणाञ्चोत्पादाभावेन क्षयानुत्पादनानात्मिका महाबोधिरक्षयेत्यर्थः । आदिकर्मिकावस्थायामुपलम्भाभिनिवेशेन भावनायां कस्मादौदृशौ प्रज्ञापारमिताऽधिगम्यत इत्याह । कथं भगवन्नित्यादि। नैष दोषो यस्मात्प्रयोगकालमेवारभ्य विनाशोत्पादविगतान्मायोपमान् सर्वधर्मान् भावयतीत्याह । रूपाक्षयत्वेनेत्यादि। प्रकारान्तरेणापि स्पष्टयन्नाह । एवं