________________
व्यभिसमयालङ्कारालोकः ।
४६.५
प्रमाणम् । अनुमानेन विविक्ततावबोधः क्षयः । आगमेनोभाभ्यां वा इयत्तावधारणं पर्यन्तः । अयमभिप्रायः यथाकाशस्य द्रव्याभावमात्रस्वभावत्वात्प्रमाणादि ग्रहीतुं न शक्यते तथा मातुरपौति । एतदेव स्पष्टयन्नाह । तत्कस्य हेतोरित्यादि । ग्रन्थप्रमाणकथनेन प्रमाणादिकमाख्यातमिति चेदाह । न मयानन्देत्यादि । प्रज्ञापारमितायास्तत्त्वरूपाया इति भावः । कस्यास्तर्हि प्रमाणादिकं स्यादित्याह । नामकायेत्यादि । तत्र धर्माणां स्वभावाधिवचनं नामकायास्तेषामेव विशेषाधिवचनं पदकायाः तदुभयाश्रयाक्षराणि व्यञ्जनकायाः । नामादिस्वभावा प्रज्ञापारमिता प्रमाणबद्धा मापि न मुख्यतः प्रज्ञापारमितेत्यर्थः । तदेव स्पष्टयितुमाह । तत्कस्य हेतोरित्यादि । एतदुक्तं परमार्थतस्ताथागतं ज्ञानं प्रज्ञापारमिता तत्प्रतिपादनादुपचारटत्या ग्रन्यात्मिका प्रज्ञापारमिता तत्त्वत इति । अत एव तत्त्वमधिकृत्याह । न हि प्रमाणवतीयमित्यादि । तत्त्वरूपायाः प्रमाणाकथने कारणं पृच्छन्नाह । केन पुनरित्यादि । परिहारार्थमाह । अक्षयत्वादित्यादि । विविक्तत्वादिति । उत्पादाभावेनानुत्पादज्ञानस्वभावत्वादित्यर्थः । विविक्तस्येति । श्रनुत्पन्नस्य भावस्य शून्यता नोपलभ्यते धर्मिणोऽसत्त्वादिति भावः । अप्रमेयत्वादिति । क्षयोत्पादाभावेन प्रमातुमशक्यत्वात् । वैयध्विकतथागतानां क्षयानुत्पादज्ञानप्रभावितत्वमित्याह । येऽपि ते श्रानन्द इत्यादि । तत्क्षणिकानित्यतया क्षौणा प्रबन्धानित्यतया परिक्षीणा । उपसंहरन्नाह । तस्मात्तत्यादि