________________
888
अशाविंशतितमपरिवर्तः ।
सन्दर्शनार्थं सर्वधर्मा न चक्षुषोऽप्याभासमागच्छन्तीत्यादि पदचतुष्टयम् । एतदेव समर्थयितुमाह । तत्कस्य हेतोरित्यादि। एतदेवं कुत इति। तत्कस्य हेतोरित्याशङ्याह। निरौहा होत्यादि। एतदुक्तं भवति। कल्पितो धर्मोऽजानको यस्मादाकाशनिरौहकतया निरीहकस्तथा परतन्त्रोऽपश्यको यतो मायापुरुषोपमत्वेनाचिन्त्यः, परिनिष्यन्नोऽपि न कार्यसमर्थो यस्मादसम्भवत्वेनावेदक इति। उपसंहरन्नाह। एवं चरन्त इत्यादि। का पुनरियं महाबोधिर्यदर्थं यथोक्तकारणत्रयसहायो दर्शनमार्गोऽभिप्रेत इति । महाबोधिमुपोहातयन्नाह । सर्वशिक्षापरमपारमितां महाबोधिमित्यादि (p. 468, 2)। तथैव तत्कस्य हेतोरित्याशङ्ख्याह। एषा होत्यादि। उत्क्षिप्य पुनरेव निक्षिपेयुरित्यूर्ध्वमुन्नौय पुनरेव पातयेयुरित्यर्थः । न च तेषामित्यादि विनेयजनप्रतिभासापेक्षयोच्यते। नतु भगवतां विकल्पः समुदाचरति। तत्कस्य हेतोरित्याशङ्ख्याह । अप्रमे येत्यादि निर्विकल्पत्वादिति भावः। नन्वन्यदानादिशिक्षासद्भावे कस्मात्प्रज्ञापारमिताशिक्षा विधीयत इत्याह । यावत्य आनन्द इत्यादि। सामान्येनोपोहातं कृत्वेदानों महाबोधिस्वरूपं कथयन्नाह । अक्षया होत्यादि। श्याभावादक्षयज्ञानस्वभावा महाबोधिः प्रज्ञापारमिता। एतदेव तत्कस्य हेतोरित्याशय कथयन्नाह। असत्त्वादिति (p. 467, 2) क्षयाभावादित्यर्थः। एतदेव विस्तारयन्नाह । आकाशस्य होत्यादि। तत्र प्रत्यक्षेण स्वरूपपरिच्छेदः