________________
व्यभिसमयालङ्कारालोकः ।
नार्थमाह । येऽपि त इत्यादि (p. 463, 11 ) । मध्यपरौन्दनार्थमाह । ये हि केचिदित्यादि (p. 464, 3) | अधिमात्रपरौन्दनार्थमाह । एषा द्यानन्देत्यादि । बोधिप्राप्तये चाव्यवहितं स्वतः प्रचुरतरप्रज्ञापारमिताभावनादिपुण्यलक्षणं तृतौयं कारणं कथयन्नाह । सचेत्त्वमानन्द श्रावकयानिकानामित्यादि । एकक्षणलवमुहूर्तमपौति क्षणादिग्रहणं यथाक्रमं तौक्ष्ण मध्यम्मृद्दिन्द्रियपुङ्गलज्ञापनार्थम् । तचाध्वपर्यन्तः क्षणः विंशत्क्षणशतं पुनस्तत्क्षणस्ते पुनः षष्टिर्लवः । चिंशल्लवा मुहूर्तः ।
मर्वान्त्योऽपि हि वर्णात्मा निमेषतुलित स्थितिः । इति न्यायात्कथं क्षणेनैकेन धर्मं देशयतीति चेदुच्यते । देशकबोधिसत्त्वाधिपत्याच्छ्रोतुः क्षणेनैकेन देशनाधर्मनिर्भासवतः प्रत्ययस्योत्पादात्, तेन तस्य धर्मो देशित इति व्यपदिश्यते । यथोक्तान्येव चौणि सम्यक्सम्बोधिप्राप्तिकारणान्यवगन्तव्यानि । तथा चोक्तम्
बोधौ सन्दर्शनान्येषां ततोश्च परौन्दना । तत्प्राप्त्यनन्तरो हेतुः पुण्यबाहुल्यलक्षणः ॥ १७ ॥ इति यथानिर्दिष्टकारणसहितस्यैव दर्शनमार्गस्य विकल्पाप्रतिभासने सामर्थ्यमिति प्रतिपादयितुमक्षोभ्यतथागतमन्दर्शनानाभासगमनोदाहरणं कथयन्नाह । अथ खलु भगवान्नित्यादि । तत्र सर्वगुणरत्नाकरत्वात् सागरोपमा, गम्भौरधर्मावबोधात् गम्भौरा, सर्वमारविषयातिक्रान्तत्वादक्षोभ्या। दाष्टन्तिकमर्थं वक्तुमाह । एवमानन्द सर्वधर्मा इति । चतुर्विधग्राह्यग्राहकविकल्पानां दर्शनमार्गेऽनभास
४६३