________________
४६२
अयाविंशतितमपरिवर्तः ।
अतोऽपकर्ष एव काले यथोक्तान्तरकल्पप्रमाणेन कालस्य परिच्छेदाविंशतिकल्पसहसाणौत्युच्यते। बोधिनिमित्तार्थमेवान्येषां सम्यग्ग्रन्थार्थादिहारेण प्रज्ञापारमिताप्रत्यर्पणं द्वितीयं कारणं वक्तमुपोहातयन्नाह। येहि केचिदानन्देत्यादि (p. 459, 3) । तथैव तत्कस्य हेतोरित्याशङ्ख्याह। तथा हि मनुष्येधित्यादि। न प्रतिक्रोशयन्तीत्यादि (p. 460, 6) सप्तपदानि यथाक्रमं सर्वाकारजतादिसप्ताभिसमयविलोमनादिति वाच्यानि। न विसंवादयिष्यति प्रणिधानमिति। अनुत्तरबोधिविषये प्रवृत्तप्रणिधानम्। यद्यन्यथाप्रणिधिकरणान्न विमंवादयिष्यत्येवं तत्कशलमूलं श्रावकप्रत्येकबुद्धत्वाय न दास्यति विपाकमित्यर्थः। उपोहातं कृत्वेदानौं तथागतसम्बन्धेन मृदपरोन्दनार्थमाह। तस्मात्तीत्यादि। परोन्दामि प्रत्यर्पयामि। अनुपरौन्दामि पुनरपि प्रत्यर्पयामि। उद्हणाद्यर्थं प्रत्यर्पणादेवार्यानन्दोऽस्या मातुः मङ्गौतिकार इति केचित्। धारणाद्यर्थ मेव प्रत्यर्पणान्महावज्रधर एव सङ्गीतिकार इत्यपरे । तत्र विप्रणाशनमन्यथाकरणमुत्सर्जनं सर्वथा प्रत्याख्यानम्। विस्मरणममनसिकरणम्। पदसामन्तकः पदैकदेशः। काययप्रापणाद्यथाक्रमं माता जननी जनयित्री। तस्मादेव सर्वज्ञतायाः समुत्पादनादाहारिका। मध्यपरौन्दनार्थमाह। उनहोतव्येयमित्यादि (p 461, 13) । अधिमात्रपरौन्दनार्थमाह। यथा तदित्यादि। तत्तदितिकर्तव्यञ्चेत्यादिना सम्बन्धः। तया हितैषितयेति (p. 462, 9)। तथागतहितैषितया बोधिसत्त्वसम्बन्धेनापि मृदुपरौन्द