________________
अभिसमयालङ्कारालोकः ।
४६१ यथोक्तबोधिदर्शनादिमार्गसन्दर्शनया सम्पन्नहेतुकैर्मार्गदर्शनाधिगमाद्भिक्षुभिः कृता पूजेत्याह। अथ खल्वित्यादि (p. 456, 2)। गृहीतमान्दारवपुष्यदेवपुत्रसन्निपातो भिष्ट्राणां पुष्यप्राप्तये पूर्वप्रणिधानबलादित्येवावगन्तव्यम् । अधिगमसम्प्रत्ययलाभादुत्तरोत्तराभिवृद्ध्यर्थं प्रणिधानञ्च कृतवन्त इत्याह । एवञ्च वाचमभाषन्त इत्यादि। अथ खल भगवन्नित्यादि। व्याख्यातम् । विंशतिकल्पमहस्राणौति । अपरिमितायुषो मनुष्यानारभ्य यावद्दशवर्षायुषो जायलेऽयं शस्त्ररोगाभ्यां दुर्भिक्षेण च निर्गमादपकर्षः प्रथमोऽन्तरकल्पः। तेभ्यो दशवर्षायुष्केभ्यः क्रमेणोत्कर्ष गच्छन्तोशौतिवर्षसहस्रायुषो भवन्ति। पुनश्च तथैवायुरपकर्षे प्रतिपद्यमाना दशवर्षायुष इत्येवमुत्कर्षापकर्षभेदेनाष्टादशन्तरकल्पास्ततोऽपि दशवर्षायुष्कभ्य एवोत्कर्ष प्राप्नवन्तोऽशौतिवर्षसहस्रायुष इत्ययमुत्कर्षो विंशतितमोऽन्तरकल्पः। तथा यावानेवान्येषामुत्कर्षणापकर्षणकालस्तावानेव प्रथमस्यान्तरकल्पस्यापकर्षकालः, पश्चिमस्योत्कर्षकाल इति समानकालाः सर्वे भवन्त्येवमेकेनान्तरकल्पेन भाजनानां ध्वंसादेकोनविंशत्या शून्यौभवनाविंशतिमन्तरकल्यान् लोकः संवर्तते, विंशतिमन्तरकल्यान् संतस्तिष्ठति। तथैकेनान्तरकल्पेन भाजनाभिनिर्वर्तनादेकोनविंशत्या वासनाविंशतिमन्तरकल्यान् लेाको विवर्तते, विंशतिमन्तरकल्यान् वित्तस्तिष्ठत्येवमशीत्यन्तरकल्पसंख्यावच्छिन्नो महाकल्पोऽयं भद्रकल्यादिस्तारकोपमस्तु कल्पो नैवं प्रणिधानकुशलमूलाधिपतेयत्वेनातिदीर्घत्वात् ।