________________
४६.
सप्तविंशतितमपरिवर्तः।
दिकमकृत्वाऽनुत्तरां बोधिं संवत्या बोडकामास्ते दुष्करकारका इत्यत्साहप्रवेदनाद्बोधौ दर्शनादिमार्गसंदर्शनान्येषां प्रतिपादिता स्यात्। परमार्थसमाश्रयणेन किञ्चिद्दष्करमित्याह । यत्कौशिकैवमित्यादि। सुभाषितत्वेन प्रशंसयन्नाह । यद्यदेवार्यसुभूतिरित्यादि। न कचित्मज्जतौति। न क्वचिदभिनिवेशते। स्वोक्तार्थ द्रढय. नाह। कच्चिदहमित्यादि। धर्मस्य चानुधर्ममिति यथा प्रणिहितस्य शून्यताधर्मस्य प्रतिपत्तिः। साधूक्तमित्याह । यत्खलु त्वमित्यादि। तथैव तत्कस्य हेतोरित्याशङ्ख्याह । यद्यदेव होत्यादि। एतदेव कुत इति । तत्कस्य हेतोरित्याशङ्याह । (1) 455, 2) सुभूतिर्हि कौशिकेत्यादि । कामादिधातुचये प्रत्येकं मृदमध्याधिमात्रक्लेशप्रहाणकारिणोः दर्शनमार्गस्य शून्यतारूपेण दर्शितत्वाद्यथाक्रम प्रज्ञापारमितामपि तावन्नोपलभ्यत इत्यारभ्य यावद्धर्ममेव तावन्नोपलभ्यत इति नवपदानि वाच्यानि। सामान्येन मर्वधर्माणां कार्यकारणयोरनुपलम्भाद्यथासंख्यं सर्वधर्मविविक्तविहारः, सर्वधर्मानुपलम्भविहारश्च ग्राह्यः । यद्येवं बोधिसत्त्वैः समान एव श्रावकाणां विहार इति चेदाह । यः खलु पुनरित्यादि (p. 455, 3) । तेषामिति तथागतविहारव्यतिरिक्तानामन्येषामनेन विहारेण विहर्तव्यमिति । बोधिसत्त्वविहारानुशंसकथनेनैव महाबोधौ दर्शनादिमार्गसन्दर्शनाऽन्येषां निगदिता स्यात् । अभिसमयालङ्कारालोकायां प्रज्ञापारमिताव्याख्यायां
मारपरिवर्तो नाम सप्तविंशतितमः ॥