________________
अभिसमयालङ्कारालोकः ।
तथा चोक्तम् । यथोद्देशमनिर्याणे मार्गामार्गावधारणे । सनिरोधे समुत्पादे वस्तुयोगवियोगयोः ॥ १५ ॥ स्थाने गोत्रस्य नाशे च प्रार्थनाहेत्वभावयोः ।
प्रत्यर्थिकोपलम्भे च विकल्पो ग्राहकोऽपरः॥१६॥ इति स्याबाह्यविकल्पो न ग्राहकविकल्प इति। चतुष्कोटिकम्। तत्र प्रथमा कोटिः यविषयप्रतिभासा ग्राह्याकारविज्ञप्तिः । द्वितीया त्वेकक्षणिको ग्राहकाकारा। तृतीया सैव क्षणान्तरे। चतुर्थों तदाकारविनिर्मुक्ता प्रज्ञापारमितेति। स्यात् गोत्रमेव न गोत्रविकल्प इति पश्चात्पादकः। यस्तावहोत्रविकल्यो गोत्रमपि तत् तद्यथा प्रतिपक्षममुदागमकाले गोत्रम्। स्याहोत्रमेव न गोत्रविकल्पः तद्यथा समुदागच्छगोत्रमिति। स्यात् समुदागमविकल्पो नालम्बनविकल्प इति पूर्वपादकः। यस्तावत् समुदागमविकल्पः आलम्बनविकल्पोऽपि सः तद्यथा समुदागच्छतः सम्यगालम्बने प्रयोगः । स्यादालम्बनविकल्प एव न समुदागमविकल्पस्तद्यथाऽपरिनिष्यन्नमालम्बनमिति। अनया दिशा शेषोऽभ्यूह्यः। दर्शनमार्गे विपक्षं सप्रतिपक्षमेव निर्दिश्य यन्महाबोधिपरिनिष्यत्तये दर्शनमार्गो येन विविधकारणेन सहित इष्यते। तदिदानों वक्तव्यमिति। महाबोधौ दर्शनादिमार्गसन्दर्शनेनान्येषां प्रतिछापनं प्रथमं कारणं कथयन्नाह। गम्भौरा भगवनित्यादि (p. 454, 1)। पूर्ववत्तत्कस्य हेतोरित्याशङ्ख्याह । न च नाम भगवन्नित्यादि। सर्वधर्मानुत्पादेऽप्यवलयना