________________
सप्तविंशतितमपरिवर्तः ।
तथताव्यतिरिक्तान्यधर्मानुपलम्भे सति नैव कश्चित्परमार्थतस्तथतायां स्थास्यति, संकृत्या पुनर्गोचविप्रणाशविकल्पविरहात्स्थास्यन्तौति भावः। परमार्थमेवाधिकृत्य स्पष्टयन्नाह। तथतैव तावदित्यादि। सप्तमविकल्पार्थमाह। न सुभूते तथताऽनुत्तरामित्यादि। तत्त्वतो न तथता नान्यो वा धर्मो बोधिमभिसम्बध्यते किन्तु संहत्या प्रार्थनाsभावविकल्पविरहात् प्रार्थयितव्यवस्वपलम्भेनाभिसम्बुध्यत इति मतिः। अष्टमविकल्पार्थमाह। न सुभृते तथता धर्म देशयतीति । तत्त्वतो न तथता धर्म देशयत्यपि तु संस्त्या हेत्वभावविकल्पविरहाद्धेतुसद्भावेन देशयतीत्यभिप्रायः । नवमविकल्पार्थमाह। सोऽपि सुभूते नोपलभ्यते यो धर्मों देश्यतेति। प्रत्यर्थिकधर्मोपलम्भविकल्पाभावेन देश्यमानधर्मानुपलभ इत्यर्थः। एतदक्तम्। श्रावकादिनिर्याणत्वेन यथोक्तोद्देशानिर्याणे हिताहितप्राप्तिपरिहारत्वेन मार्गामार्गावधारणे संतिकार्यकारणभावेनोत्पादनिरोधे निरन्तरेतरप्रतिभासत्वेन समस्तवस्तुसंयोगवियोगे व्योमावस्थितशकुनिसदृशरूपादिस्थाने, बोधिचित्तोत्पादादिद्दारेण श्रावकादिगोत्रविनाशे तथताप्रतिविशिष्टधर्माभावेनाभिलाषाभावे परमार्थसत्याश्रयेण हेत्वभावेऽत्यन्तमात्सर्यधर्मतया प्रत्यर्थिकमारादिवस्वपलम्भे च तात्त्विकभावाभिनिवेशेन प्रज्ञप्तिसन्नेवात्मा ग्राहकः प्रवर्तत इत्येवमार्याणां सम्बन्धी द्वितीयो ग्राहकविकल्पो नवप्रकारो दर्शनमार्गचित्तचैत्तप्रवृत्त्यवस्थायां बोधिसत्त्वानां प्रहेयस्तत्प्रतिपक्षावस्थाप्रतिपादनेन व्यतिरेकमुखेनोक्तो भवति ।