________________
अभिसमयालङ्कारालोकः।
(८७
च तावत् प्रकर्षवतीमनुत्पत्तिकधर्मक्षान्तिमविनिवर्तनीयवशिताप्राप्तिं चाधिगता भवन्तीत्येवमुद्देशानिर्याणविकल्पाभावो दर्शितः। द्वितीयविकल्यार्थमाह। येषां खलु पुनरित्यादि (p. 452, 1)। प्रहौणा तेषां श्रावकभूमिः प्रत्येकबुद्धभूमिश्चेत्यनेन मार्गावधारणविकल्याभावमाह। बुद्धभूमिरेव तेषां प्रतिकांक्षितव्येत्यनेनापि स्वमार्गावधारणविकल्पविरहो दर्शितोऽन्यथा विपर्याससद्भावेन बुद्धभूमेरसम्भवात्। तृतीयविकल्पार्थमाह। तेऽपि व्याकरिष्यन्तेऽनुत्तरायामित्यादि। पूर्ववत्तत्कस्य हेतोरित्याशङ्कयाह। येषां हि सुभूत इत्यादि। एवं प्रज्ञापारमितायाञ्चरतामिति । उत्पादनिरोधविकल्पविवेकेनानुतिष्ठतामित्यर्थः। चतुर्थविकल्पार्थमाह। पुनरपरं सुभूत इत्यादि। अविनिवर्तनौयतायां स्थास्यन्तीति। ये बोधिसत्त्वाः कांक्षादिकमकृत्वा विस्तरेण श्रवणादिकं करिष्यन्तौति तेषाञ्चान्तिके ब्रह्मचर्यचरणादिकमनुष्ठास्यन्ति तेऽपि संयोगवियोगविकल्पविरहादविनिवर्तनौयत्वे स्थास्यन्तीत्यर्थः। पञ्चमविकल्पार्थमाह। कः पुनर्वादो य एनामित्यादि (p. 45:3, 2)। रूपादिस्थानविकल्पानुपलम्भेन ये त्वधिमुच्य प्रज्ञापारमितां तथत्वाय च स्थित्वा बुद्धत्वनिमित्तं सत्त्वेभ्यो धर्म देशयिष्यन्ति, ते नितरामविनिवर्तनीयत्वे स्थास्यन्तौति पूर्वेण सम्बन्धः । षष्ठविकल्पार्थमाह। यदा भगवंस्तथतेत्यादि। यत्सुभूत इत्यादिना तद्वचनमनूद्य परिहरन्नाह । न सुभूते तथताविनिर्मुक्तोऽन्य इत्यादि। धर्मधातुस्वभावत्वात् सर्वधर्माणां