________________
४८६
सप्तविंशतितमपरिवर्तः ।
केतुबोधिसत्त्वग्रहणं तत्समानजातीयबोधिसत्त्वोपलक्षणपरं ज्ञेयम्। प्रतिविशिष्टकल्याणमित्रादिपरिग्रहबलेनाचलायां भूमेरपि प्राक्कथञ्चिद्यथेच्छगमनव्याघातविकल्पविरहाविवशितां प्राप्ता येऽक्षोभ्यादिबुद्धक्षेचे बोधिसत्त्वा विहरन्ति तेऽविनिवर्तनीयान् स्थापयित्वा नामादिकीर्तनविषया विद्यन्त इत्यर्थः। एतदक्तम्। यथावत् संस्त्या ग्रहणमोक्षणे तत्त्वतोऽमनस्कारेण मनस्करणे धर्मतया चैधातुकोपश्लेषणे शून्यताऽनवस्थानेनावस्थानेऽनभिनिवेशेन सर्वाभिनिवेशे द्रव्यसद्भावेन सर्वधर्मप्रज्ञप्तौ तत्त्वज्ञानासत्यानभिनिवेशपूर्वकसक्तौ समताभावनाऽप्रतिपक्षतया प्रतिपक्षे सम्यगविज्ञातप्रज्ञापारमितत्वेन यथेच्छगमनव्याघाते च पारमार्थिकभावाभिनिवेशेन द्रव्यमन्नेवात्मा ग्राहकः प्रवर्तत इत्येवं पृथग्जनसम्बन्धी प्रथमो ग्राहकनिकल्पो नवप्रकारो बोधिसत्त्वानां दर्शनमार्गप्रयोगावस्थायां प्रहेयः, तत्प्रतिपक्षावस्थाप्रतिपादनेन व्यतिरेकमुखेन प्रतिपादित इति । तथा चोक्तम्
ग्राहकः प्रथमो ज्ञेयो ग्रहणप्रतिमोक्षणे । मनस्क्रियायां धातूनामुपश्लेषे त्रयस्य च ॥१३॥ स्थाने चाभिनिवेशे च प्रज्ञप्तौ धर्मवस्तुनः।
सक्तौ च प्रतिपक्षे च यथेच्छं च गतिक्षतौ ॥१४॥ इति कथं प्रज्ञप्तिसत्पुरुषाधिष्ठानो द्वितीयग्रहणविकल्पो नवधेति। प्रथमविकल्यार्थमाह । पुनरपरं सुभूत इत्यादि। अधिमुश्चन्तौति। सर्वसत्त्वाग्रतायुद्देशगमनाभिप्रायेणानुत्पत्तिकाः। शान्ता इति वा सर्वधर्मान् मनसिकुर्वन्ति। न