________________
अभिसमयालङ्कारालोकः ।
४८५
भविष्यसौत्याोकादशपदानि वाच्यानि। उपसंहरन्नाह । एवं ते देवपुत्रा इत्यादि। तथैव तत्कस्य हेतोरित्याशयाह । एतेन हि सुभूत इत्यादि। यस्माद्यथोक्तविहारेण विहरतो बोधिसत्त्वस्य बुद्धा भगवन्तो नामादिकीर्तनधर्मदेशनापूर्वकमुदानमुदौरयन्ति, तस्मादत्साहं वर्धयिष्यन्तीत्यर्थः। एतदेव दृष्टान्तेन स्पष्टयन्नाह। तद्यथापि नामेत्यादि। सर्वबोधिमत्त्वानामानन्त्यान्नामग्रहणाशक्यत्वादतिदिशन्नाह । अपरेषामित्यादि (p 4 30, 2)। शाक्यमुनितथागतबुद्धक्षेत्रप्रशंसनारे बोधिमत्त्वा न विद्यन्त इति चेदाह। एवमेव सुभूत इत्यादि। एतदक्तम् । यथाहं स्वबुद्धक्षेत्रावस्थितबोधिसत्त्वोत्साहनायापरतथागत क्षेत्रावस्थितबोधिसत्त्वानां नामादिकीर्तनपरी धर्म देशयाम्येवमेव तेऽक्षाभ्यादयोऽपि तथागता मद्धक्षेत्रावस्थितबोधिसत्त्वानां नामादिकीर्तनपरा धर्म देशयन्तीति। अष्टमविकल्पार्थमाह। किं सर्वेषामेवेत्यादि। नो हौदमिति । परिहारवचनं विण्वन्नाह । न सुभूत इत्यादि। किन्तर्हि येऽविनिवर्तनौया इति । प्रतिपक्षविकल्पविगमाद्येऽष्टम्यादिभूमावविनिवर्तनीयतां प्राप्ता इत्यर्थः। नवम विकल्पार्थञ्चाह। सन्ति भगवन्नविनिवर्तनौयानित्यादि। विद्यन्त इत्याह । मन्ति सुभूत इत्यादि। एतदेव ते पुनः कतम इत्याशय प्रतिपादयनाह। य एत)त्यादि (p 451, 4)। अक्षोभ्यस्येति वचनं बाहुल्येन तदुद्धक्षेत्रे परिशुइसन्ततौनामुत्पादात् अन्यानयतिदिशन्नाह। येऽपि ते सुभूत इत्यादि। रत्न