________________
४८४
सप्तविंशतितमपरिवर्तः।
भावात् सम्यक् चरति जिनजनन्यामित्यर्थः। तृतीयविकल्पार्थमाह। एवं चरन्तं बोधिसत्त्वमित्यादि। एवं चरन्तं नमस्यन्तीति। चैधातुकश्लेषविकल्पविरहानुभवत्वप्राप्त्या नमस्कुर्वन्ति । चतुर्थविकल्पार्थमाह। येऽपि ते सुभूतेऽप्रमेयेधित्यादि (p 447, 8)। बुद्धचक्षुषा पश्यन्तौति स्थानविकल्पविवेकाद्विशिष्टार्थोत्पादनाभिप्रायेण निरूपयन्ति, कार्यनिष्पादनादनुगृह्णन्ति, भव्यतारू पेणावधारणात् समन्वाहरन्ति। तथागतानुग्रहादेव प्रश्नयन्नाह। ये च खलु पुनरित्यादि। पूर्ववत्तत्कस्य हेतोरित्याशङ्याह। ये सुभूत इत्यादि। एतदेव विस्तारयन्नाह । तिष्ठन्त्वित्यादि (p. 148, 9)। पञ्चमविकल्पार्थमाह। दाभ्यामित्यादि। अपरित्यक्ता भवन्तीत्यनेनाभावाभिनिवेशविकल्पो निषिद्धः । सर्वधर्माश्चानेन शून्यतातो व्यवलोकिता भवन्तीत्यनेन भावाभिनिवेशविकल्पश्च प्रतिक्षिप्तः। षष्ठविकल्पार्थमाह। अपराभ्यां सुभूत इत्यादि। धर्मवस्तुप्रज्ञप्तिविकल्यो मया प्रहतव्य इत्युक्तार्थस्य निष्पादनाद्यथावादी तथावादी तथाकारौ च भवति। अत एव च ममन्वाहियते। सप्तमविकल्यार्थाह। एवञ्चरतः सुभूत इत्यादि। यदत प्रज्ञापारमिताविहारेणेति। सक्तिविकल्पप्रहाणकारित्वादस्य विहारस्येति भावः। एतदेव स्पष्टयनाह। तत्कस्य हेतोरित्यादि (p. 449, 3)। समाहितासमाहितभेदादिहरन्निति बोधव्यम्। प्रमुदितां भूमिमारभ्य यावत् समन्तप्रभाबुद्धभूम्यधिगमलाभाद्यथाक्रमं नाथो