________________
व्यभिसमयालङ्कारालोकः ।
समस्तज्ञेयावरणाप्रतिपक्षत्वेन प्रतिपद्वैकल्ये तथागताद्युपदेशसापेक्षत्वेन परप्रत्ययगामित्वे सर्वसत्त्वाग्रतामहत्त्वाद्यप्रवृत्तत्वेनोद्देश निवृत्तौ क्लेशावरणप्रतिपक्षत्वेन प्रादेशिकमार्गव्यापारे सोपलम्भेन प्रथमफलाद्यधिगमनानात्वे सर्वाविद्यानुशया प्रहौणत्वेन स्थानगमनाज्ञाने महायान - सर्वसंग्राहकत्वेन सर्वाकारज्ञतासर्वनिर्वाणपश्चादनुगमने च सदोषतया ग्राह्यत्वेन निवृत्तिः कार्या । इत्येवनिवृत्तिपक्षाधिष्ठानश्रावकप्रत्येकबुद्धसन्तानोपादेयत्वसमुद्भवो द्वितौयो ग्राह्यविकल्प बोधिसत्त्वानां दर्शनमार्गे चित्तचेत्तप्रवृत्त्यवस्थायां प्रदेयस्तत्तत्प्रतिपक्षावस्थाप्रतिपादनेन व्यतिरेकमुखेन प्रतिपादित इति । तथा चोक्तम् ।
भवशान्तिप्रपातित्वान्यनत्वेऽधिगमस्य च । परिग्रहस्याभावे च वैकल्ये प्रतिपते ॥ १० ॥ परप्रत्ययगामित्वे समुद्देश निवर्तने । प्रादेशिकत्वे नानात्वे स्थानप्रस्थान मोहयोः ॥ ११ ॥ पृष्ठतो गमने चेति विकल्पोऽयं नवात्मकः । निवृत्तिपचाधिष्ठानः श्रावकादिमनोभवः ॥ १२ ॥ इति कथं द्रव्यसत्पृथग्जनपुरुषाधिष्ठानः प्रथमो ग्राहकविकल्पो नवधेति । प्रथम विकल्पार्थमाह । नापि भगवन् कश्चिदित्यादि । ग्रहण मोक्षण विकल्पाभावादिति भावः । एतदेव स्पष्टयन्नाह । तत्कस्य हेतोरित्यादि । द्वितीयविकल्पार्थमाह । अपि नु खलु पुनरित्यादि । एवं चरति चरति प्रज्ञापारमितायामिति । सर्वधर्मानुपलम्भदेशनायामेवमनवसादादिना यश्चरति मनसिकार विकल्पा
४८३