________________
सप्तविंशतितमपरिवर्तः ।
1
शङ्क्याह । आकाश विविक्ततयेत्यादि । सत्त्वानां कृतशः सन्नाहं मन्नह्यन्त इति । आकाशोपमनिखिलसत्त्वधातुविनयनार्थं सन्नहनेनाप्रादेशिक मार्ग व्यापारकथनात् प्रादेशिककारिचविकल्प विवेकोऽथात्कथितः । सप्तम विकल्पार्थमाह । आकाशेन म इत्यादि । सत्त्वानामाकाशस्वभावोपगमनज्ञापनादनेनाधिगमनानात्वविकल्पाभावो दर्शितः । अष्टमविकल्पार्थमाह । अयञ्च सन्नाह इत्यादि । सत्त्वानामर्थाय सन्नहनेन प्रेक्षापूर्व कारित्वात् स्थानगमनाज्ञानविकल्पासंश्लेषो दर्शितः । नवमविकल्पार्थमाह । सा चात्यन्ततयेत्यादि । तथैव तत्कस्य हेतोरित्याशङ्कयाह । सत्त्वविविक्ततयेत्यादि । पारमार्थिकद्रव्यानुपलम्भाद्रूपादीनां मायोपमताऽनुगन्तव्या । यावदित्यनेन (p. 446, 2) द्वादशायतनादिपरिग्रहः । तथागताद्यधिगमधर्माणामपि शून्यत्वात्सर्वधर्मविविक्तता । उपसंहरन्नाह । एवं देवपुत्राः सर्वधर्मविविक्तता द्रष्टव्येति । एवमनुपलम्भदेशनायामनवसादाच्चरणमित्यादि । एवं देवपुत्राः सर्वधर्मविविक्ततायामित्यादि । अनुवासे को हेतुरित्याह । किं कारणमित्यादि। कर्तृकर्मक्रियानुपलम्भात्परिहरति । विविक्तत्वादिति। उपसंहरन्नाह। अनेन भगवन्नित्यादि । एतदुक्तम् । शून्यत्वादेवभ्यतीति भेतव्यानामभावाद्यतो न संसौदति । ततश्चरति मुख्यतो निर्याणस्वभावायां प्रज्ञापारमितायामेवञ्च पृष्ठतो निर्याणविकल्पापोहो दर्शितः स्यात् । एतदुक्तम् । संसारनिर्वाणान्यतरप्रपातित्वेन श्रन्यताधिगमे कल्याणमित्रोपायकौशलविकलत्वेन संपरिग्रहाभावे
४८२