________________
व्यभिसमयालङ्कारालोकः ।
कथं निवृत्तिपक्षाधिष्ठानो द्वितौयो ग्राह्यविकल्पो नवधेति प्रथमविकल्पार्थमाह । सारे वतायमित्यादि (p. 444, 3) | प्रज्ञाकरुणयोः संसारनिर्वाणापातकारिचत्वेन सकलाधिगमाधिपत्याद्यः प्रज्ञापारमितायाञ्चरति स सारे प्रधाने चरतौत्यनेन न्यूनताधिगमविकल्पो निषिद्धः । किन्तु तत्रापि सारत्वाभिनिवेशो न कार्य इत्याह । असारे वतायमित्यादि । सारत्वावग्रहाभावादसारः । द्वितीयविकल्पार्थमाह । नमस्कर्तव्यास्त इत्यादि । कल्याणमित्रादिसम्परिग्रहेण युक्ता ये प्रज्ञापारमितायां चरन्ति, ते नमस्करणौया इत्यनेन सम्परिग्रहाभावविकल्पो निरस्तः । तृतौयविकल्पार्थमाह । ये चेह गम्भीरायां प्रज्ञापारमितायामित्यादि । न च तां धर्मतां साक्षात्कुर्वन्तौत्यनेन प्रतिपत्तिविशेषज्ञापनात् प्रतिपत्तिवैकल्यविकल्पाभावो दर्शितः । चतुर्थविकल्पार्थमाह । अथ खल्वायुष्मानित्यादि । साक्षात्कुर्वन्तौति । यद्बोधिसत्त्वानां भूतकोटेरमाक्षात्करणं नैतद्दुष्करमधिगमे स्वातन्त्र्यलाभादिति भावः । अतः परप्रत्ययगामित्वविकल्पो निरस्तः । पश्चमविकल्पार्थमाह। इदन्तु देवपुत्रा इत्यादि । सत्त्वान् विनेष्याम इति (p. 445, 5 ) । मायोपमत्वेऽपि सर्वधर्माणां सत्त्वविनेयार्थमव्यावृत्तिगमनयोगेनान्ययानगमनाभावेन चानुत्तरबोध्यधिगमप्रस्थानात्सर्वाकारज्ञातोद्देशापरिभ्रंशेनोद्देश
न
षष्ठविकल्पार्थमाह ।
निवृत्तिविकल्पविरहः स्वचितः । आकाशं स देवपुत्रा इत्यादि । तथैव तत्कस्य हेतोरित्या -
61
४८१