________________
४७७
घडविंशतितमपरिवर्तः ।
वहस्तयन्नाह। साधु साध्वित्यादि (p. 440, 3)। किन्तु संवत्या सुविशुद्धात्कारणात्सविशुद्धं फलमित्याह। यत एव सुभूत इत्यादि। मायोपमत्वेन कार्यकारणयोरविपर्यस्तत्वादिति भावः । विविक्ततेत्यप्यभिनिवेशो न कार्य इत्यादि। सचेत्सुभूते बोधिसत्त्व इत्यादि।
शून्यता सर्वदृष्टौनां प्रोक्ता निःसरणं जिनैः। येषां तु शून्यतादृष्टिस्तानसाध्यान् वभाषिरे ॥ इति न्यायादिविक्तताभिनिवेशस्यापि विपर्यासरूपत्वान्नैव प्रज्ञापारमिता स्यात्। कथन्तर्हि तामागम्याभिसम्बुध्यत इति चेदाह । एवं खलु सुभूते इत्यादि। एवमविचारैकरम्यत्वेन मंतिरूपतयेतियावत् । अत एव परमार्थमधिकृत्याह। नापि सुभूते प्रज्ञापारमितामित्यादि। मंस्त्योपसंहरन्नाह। अभिसम्बध्यते चेत्यादि। भाषितस्येति । नाभिसम्बुध्यतेऽभिसम्बध्यते चेत्यस्य । तथैवानुवदन्नाह। एवमेतदित्यादि। दष्करकारक इति संशतिसत्याश्रयेणेति भावः। अत एव परमार्थसत्यमधिकृत्याह । यथाहं भगवन्नित्यादि। भाषितस्येति दष्करकारक इत्यस्य तत्कस्य हेतोरित्याशङ्याह। तथा हि भगवन्नित्यादि (p. 441, 1)। कर्तृकर्मक्रियानुपलम्भदेशनायामनवसादादिना स्वभावविकल्पविरहात् सम्यक्प्रवृत्तत्वेन जिनजनन्याञ्चरतौति आह। सचेद्भगवन्नित्यादि। द्वितीयविकल्पार्थमाह। तद्यथापि नाम भगवन्नित्यादि। अविकल्पत्वाद्भगवन्नित्यनेन गोचविकल्पनिरासो