________________
अभिसमयालङ्कारालोकः।
898
ज्ञापितः। तृतीयविकल्पार्थमाह। मायापुरुषस्येत्यादि । नैवं भवत्यनुत्तरेत्यनेन प्रतिपत्तौ समुदागमविकल्पनिषेधः कृतः। चतुर्थविकल्पार्थमाह। प्रतिभासस्येत्यादि (12. 442, 4)। प्रतिभासदृष्टान्तेनालम्बनविकल्पापोहो दर्शितः। पञ्चमविकल्यार्थमाह। तथागतस्य कश्चिप्रियो वेत्यादि। अविकल्पत्वादेव भगवन्नित्यनेन बोधिसत्त्वस्यापि तथागतप्रियाप्रियासंविद्यमानदृष्टान्तेन प्रतिपक्षविपक्षविकल्पापोहो दर्शितः । षष्ठविकल्पार्थमाह । यथैव हि भगवन्नित्यादि। सर्वकल्पविकल्पग्रहोण इति स्वाधिगमविकल्पानुपलम्भो दर्शितः। सप्तमविकल्पार्थमाह। तथागतेनार्हतेत्यादि। तथागतनिर्मितोदाहरणेन निर्माणान्वयकर्तृविकल्पापोहो दर्शितः। अष्टमविकल्पार्थमाह । स निर्मितको यस्येत्यादि (JP. 443, 1)। अनेन च दृष्टान्तेन कारिचविकल्पविवेको निवेदितः। नवमविकल्पार्थमाह। दक्षेण पलगण्डेनेत्यादि। स च दारुसंहातोऽविकल्प इत्यनेन क्रियासाफल्यविकल्पविरहो निगदितः। एतदक्तम्। विविक्तेन विविक्तानवबोधस्वभावेऽचलादिभूमिप्रवेशेन वियतबुद्धगोत्रमायोपमप्रतिपत्त्या दर्शनादिमार्गसमुदागमे प्रतिभासमात्रेणाभ्रान्तज्ञानालम्बने गुणदोषपूर्वकोपादेयहेयत्वेन प्रतिपक्षविपक्षे सर्वत्रगादित्वेन स्वाधिगमे होनाप्रणीतत्वेन श्रावकादिभूमिदूरीकरणे यथाशयानुरूपनिर्माणेन सत्त्वार्थव्यापारे सम्यगुपायकौशलबलेन सर्वजननिर्वाणप्रतिष्ठापनक्रियाफले च निर्दोषतया सर्वथोपादेयत्वेन प्रवृत्तिः कार्येत्येवं प्रतिपक्षाधिष्ठानः प्रथमो ग्राह्यविकल्यो नव