________________
अभिसमयालगरालोकः ।
तद्दिषयभावापन्नग्राह्यावथौ न तथा ग्राह्यरूपेण भवतस्तदा न कस्यचित्तौ ग्राहकाविति। ग्राहकरूपेणानयोर्विविक्तरूपमिति वितथप्रतिभासित्वादयथाविषयस्वरूपौ वक्ष्यमाणविषयभेदेन प्रत्येकं नवप्रकारौ विबन्धकत्वादिपक्षाविति। तथा चोक्तम्।
द्रव्यप्रज्ञप्तिसत्सत्त्वविकल्पौ ग्राहको मतौ। पृथग्जनार्यभेदेन प्रत्येक तौ नवात्मकौ ॥ ६ ॥ ग्राह्यौ चेन्न तथा स्तोऽौँ कस्य तौ ग्राहको मतौ।
इति ग्राहकभावेन शून्यतालक्षणं तयोः ॥ ७॥ इति तत्र कथं विषयभेदेन प्रथमो ग्राह्यः विकल्पो न च वेति प्रथमविकल्पार्थमाह। कथं भगवन्नित्यादि। कथमिति केन प्रकारेण मायोपमं चित्तं न माया नाप्यन्यो धर्मस्तत्त्वेन कथञ्चिदभिसम्बध्यत इति । प्रतिप्रश्नेन प्रतिपादयन्नाह । तत्किं मन्यस इत्यादि। यश्चात्यन्तविविक्तो धर्म इति (p. 439, 10) यो धर्मः स्वभावशून्यः सोऽनुत्पन्नत्वादस्तितां न प्रतिपद्यते। न च निर्विषयः साधुः प्रयोगो विद्यते नञ्चः विकल्पापाश्रयत्वे वा सांकृतः स्यान्न तात्त्विक इति न्यायान्नास्तिताञ्च न प्रतिपद्यत इत्यर्थः। पूर्ववत्तत्कस्य हे तोरित्याशङ्कयाह। नहि भगवन्नित्यादि। विविक्तत्वादेव सर्वधर्माणां न हेतुफलभाव इत्याह । यश्च धर्मोऽत्यन्तविविक्त इत्यादि। आवाहको वा निर्वाहको वेति । उत्पादको वा नाशको वेत्यर्थः। अमुमेवार्थं विस्तारयनाह। कथञ्च भगवन्नित्यादि। तत्त्वतो नैव बोध्यबोधकमित्युपसंहरन्नाह । यदा भगवन्नित्यादि। सुभाषितत्वा