________________
घड्विंशतितमपरिवर्तः ।
ग्राह्यविकल्पवयं निर्दिश्यैव ग्राहकविकल्पदयं वक्तव्यमिति, प्रथमं द्रव्यसत्पृथग्जनपुरुषाधिष्ठानं ग्राहकविकल्पं कथयन्नाह। एवं तैरनुमोदनासहगतरित्यादि। तथैव तत्कस्य हेतोरित्याशयाह। तथा हि तैरित्यादि(p. 435, 3) । द्रव्यसन्नेव आत्मा ग्राहक इति विकल्याभिनिवेशेन पृथग्जनैरनुमोदितानि कुशस्लमूलानि यतस्तस्मात्सत्कारादिकं फलमुक्तं न त्वन्यबुद्धत्वादिकमित्यर्थः । ननु चानात्मानः सर्वधर्मा इत्यपि पृथग्जनाः प्रतिपद्यन्त इत्यव्यापिनी प्रथमग्राहकविकल्पव्यवस्था। अधिमुक्तिमनस्कारः स तेषां तत्त्वमनस्कारश्चेह विवक्षित इत्यसारम् । द्वितीयं प्रज्ञप्तिसदार्यपुङलाधिष्ठानं ग्राहकविकल्पं वक्तमाह। यैरपि भगवंच्छन्दमुत्यायेत्यादि। सम्यक्सम्बोधेराहारका भविष्यन्तीति। प्रज्ञप्तिसन्नेवात्मा ग्राहक इति कल्याभिनिवेशेनार्याणामनुमोदनाचित्तोत्पादादिविवर्धमाना बोधेरनुत्तरायाः समुत्पादका मुख्यतो भविष्यन्तीत्यर्थः। धर्मतोविरुवत्वादनुवदन्नाह। एवमेतत्कौशिकेत्यादि। मृदमध्याधिमात्रानुमोदनाभेदादनुमोदितानीत्यादि पदत्रयं वाच्यम्। ननु चार्यस्याप्येवं भवत्यौषमहं भिक्षवो राव्याः प्रत्यूषसमये शृगालस्य प्राणिनो वाशितशब्द तथाहं स तस्मिन् सययेऽनिन्दितो नाम मृगराजोऽभूवमित्यव्यापिनो द्वितीयग्राहकविकल्पव्यवस्था। व्यवहारिकमार्याणामेवंविधं वचनं न पारमार्थिकमित्यसारम् । एतदुक्तम्। पृथग्जनार्यपुगलयोर्यथाक्रमं द्रव्यप्रज्ञप्तिसत्पुरुषाधिष्ठानौ ग्राहकाविति दावेतो ग्राहकविकल्यौ। यदा