________________
अभिसमयालारालोकः ।
निर्वेधभागीयानन्तरं दर्शनमार्गः। तच चतुर्विधो विपक्षो ग्राह्यग्राहकविकल्पः सप्रतिपक्षो वक्तव्य इत्यादौ तावत्सकलप्रतिपक्षाधिष्ठानं प्रथमं ग्राह्यविकल्पमावेदयनाह। माराधिष्ठितास्ते भगवन्नित्यादि (p. 436. 9) । माराधिष्ठितामारपाक्षिकामारभवनच्युता इति। मृदुमध्याधिमात्रनिन्दाभिधानात्यदत्रयम्। तथैव तत्कस्य हेतोरित्याशङ्कयाह। मारभवनविध्वंसनकरा होत्यादि। व्यतिरेकमुखेन निर्दिश्यान्वयमुखेन तमेव विकल्पं कथयन्नाह । अनुमोदितव्या भगवन्नित्यादि। मायोपमभावनया दयादयसंज्ञाविगतानां बोधिसत्त्वानामेवंविधवित्तोत्यादानुमोदनादौ प्रवृत्तिः कार्येत्यर्थः । माधुक्तत्वादनुवदन्नाह । एवमेतत्कौशिकेत्यादि। (12. 4:37. 4)। द्वितीयं नित्तिपक्षाधिष्ठानं ग्राह्यविकल्पं कथयन्नाह। यैः कौशिक कुलपुचैरित्यादि। न विरागयिष्यन्तीति। हेये वस्तुनि निवृत्तिग्राह्यविकल्पबलादिति भावः। तथैवाविपरीतत्वेन प्रसंशयन्नाह। एवमेतद्भगवन्नित्यादि। एतदुक्तम्। अनुपलम्भोपलम्भस्वभावौ प्रतिनित्तिपक्षौ यथाक्रममादानसंत्यागाकारेण ग्राह्याविति प्रवृत्तिनिवृत्तिपक्षाधिष्ठानौ ग्राह्यविकल्यौ वस्तुन्यप्रतिबद्यत्तित्वेन वितथप्रतिभासित्वादयथाविषयस्वरूपौ वक्ष्यमाणविषयप्रभेदेन प्रत्येक नवप्रकारौ विबन्धकत्वात् क्लेशवद्विपक्षी ज्ञेयाविति । तथा चोक्तम् ।
प्रहत्तौ च निवृत्तौ च प्रत्येकं तौ नवात्मकौ । ग्राह्यौ विकल्पौ विज्ञेयावयथाविषयात्मकौ ॥५॥ इति